________________
चूलिका-२. मूलं-५३१ [नि. ३७०]
२५९ प्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः । तथा 'स्वाध्याययोगे' वाचनाद्युपचारव्यापार आचारमाम्लादौ 'प्रयत:' अतिशययनपरो भवेत्, तथैव तस्य फलवत्त्वाद् विपर्यय उन्मादादिदोषप्रसङ्गादिति सूत्रार्थः ।। मू.(५३२) न पडिनविज्जा सयनासनाई, सिज्जं निसिज्जं तह भत्तपानं।
गामे कुले वा नगरे व देसे, ममत्तभावं न कर्हिपि कुज्जा। वृ.किंच-'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य भमैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद्गृहस्थं, किमाश्रित्येत्याह- शयनासने शय्यां निषद्यां तथा भक्तपान'मिति तत्रशयनं-संस्तारकादि आसनं-पीठकादिशय्या-वसतिः निषद्यास्वाध्यायादिभूमिः 'तथा' तेन प्रकारेण तत्कालावस्थौचित्येन भक्तपानं' खण्डस्वाद्यकद्राक्षापानकादिन प्रतिज्ञापयेत्, ममत्वदोषात्। सर्वत्रैतन्निषेधमाह-'ग्रामे' शालिग्रामादै 'कुले वा' श्रावककुलादौ 'नगरे' साकेतादौ देशेवा' मध्यदेशादौ ममत्व भावं' ममेदमितिस्नेहमोहंन क्वचित्' उपकरणादिष्वपि कुर्यात्, तन्मूलत्वादुःखादीनामिति॥ मू.(५३३) गिहिणो वेआडिअंनकुज्जा, अभिवायणवंदनपूअणं वा।
असंकिलिडेहिं समं वसिज्जा, मुनी चरित्तस्स जओ न हानी॥ वृ.उपदेशाधिकारएवाह-'गृहिणो' गृहस्थस्य वैयावृत्त्यं गृहिभावोपकारायतत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभयाश्रेय:समायोजनदोषात्, तथा अभिवादनं-वाङ्नमस्काररूपं वन्दनं-कायप्रणामलक्षणं पूजनं वा-वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः' गृहिवैयावृत्त्यकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिः 'चारित्रस्य' मूलगुणादिलक्षणस्य यतो' येभ्यः साधुभ्यः सकाशान हानिः, संवासतस्तदकुत्यानुमोदनादिनेति, अनागतविषयं चेदंसूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादितिसूत्रार्थः॥ मू.(५३४) नया लभेज्जा निउणं सहायं, गुणाहिअंवा गुणओ समंवा।
इक्कोऽवि पावाइं विवज्जयंती, विहरिज्ज कामेसु असज्जमाणो॥ वृ.असंक्लिष्टैः समंवसेदित्युक्तमत्र विशेषमाह-कालदोषाद्'न यदिलभेत'नयदिकथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशलं 'सहायं' परलोकसाधनद्वितीयं, किंविशिष्टामित्याह'गुणाधिकं वा' ज्ञानादिगुणोत्कटंवा, 'गुणतः समंवा' तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्याकाञ्चनकल्पं विनीतंवा, ततः किमत्याह-एकोऽपि संहननादियुक्तः ‘पापानि' पापकारणान्यसदनुष्ठानानि 'विवर्जयन्' विविध मनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु असज्यमानः' सङ्गमगच्छनेकोऽपिविहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तम्
"वरं विहत्तुं सह पन्नगैर्भवेच्छठात्माभिर्वा रिपुभिः सहोषितुम्।
अधर्मयुक्तैश्चपलैरपण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम्॥ इहैवहन्युर्भुजगा हिरोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः।
असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः।। (तथा)
परलोकविरुद्धानि, कुर्वाणां दूरतस्त्यजेत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org