SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - २२ दशवैकालिक-मूलसूत्र-१/-/१ त्कथयन्त्याचार्याः, तत्प्रत्यवस्थानमिति गम्यते, किमर्थं कथयन्त्यत आह-शिष्याणामेव हितार्थम्, तुशब्द एवकारार्थः, तथा 'विपुलतरं तु' प्रभुततरंतु कथयन्ति 'पुच्छाए'त्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः ।। एवं तावत्समासेन, व्याख्यालक्षणयोजना। कृतेयं प्रस्तुते सूत्रे, कार्यैवमपरेष्वपि॥१॥ ग्रन्थविस्तरदोषान्न, वक्ष्याम उपयोगितु। वक्ष्यामः प्रतिसूत्रंतु, यत् सूत्रस्पर्शिकाऽधुना॥२॥ प्रोच्यतेऽनुगमनियुक्तिविभागश्च विशेषतः। सामायिकबुहद्भाष्याज्ज्ञेयस्तोदितं यतः।।३।। "होइ कयत्थो वोत्तुं सपयच्छेअंसुअंसुआनुगमो। सुत्तालावगनासो नामादिनासविनिओगं॥१॥ सुत्तप्फासिअनिज्जुत्तिनिओगो सेसओ पयत्थाइ। पायंसोच्चियनेगमनयाइमयगोअरो होइ॥२॥ एवंसुत्ताणुगमो सुत्तालावगकओ अनिक्खेवो। सुत्तप्फासिअनिज्जुत्ति नया असमगंतु वच्चन्ति॥३॥ इत्यलं प्रसङ्गेन, गमनिकामात्रामेतत्। तंत्र धर्मपदमाधिकृत्य सूत्रस्पर्शिकनियुक्तिप्रदिपादननि.[३९] नामंठवणाधम्मोदव्वधम्मो अभावधम्मो। एएसिं नाणत्तं वुच्छामि अहानुपुव्वीए॥ वृ.'नामंठवणाधम्मो' त्ति अत्र धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मो भावधर्मश्च । एतेषां 'नानात्वं' भेदं वक्ष्ये' अभिधास्ये 'यथानुपूर्व्या' यथानुपरिपाट्येति गाथार्थः ।। साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदांश्चानादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यधर्माद्यभिधित्सयाऽऽहनि.[४०] दव्वं च अस्थिकायप्पयारधम्मो अभावधम्मो अ। दव्वस्स पज्जवाजे ते धम्मा तस्स दव्वस्स। वृ. इह त्रिविधोऽधिकृतो धर्मः, तद्यथा-द्रव्यधर्मः अस्तिकायधर्मः प्रचारधर्मश्चेति। तत्र द्रव्यं चेत्यनेन धर्मधर्मिणोः कथञ्चिदभेदाद्रव्यधर्ममाह, तथास्तिकाय इत्यनेनतुसूचनात्सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्म-श्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह । भावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह ।। साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मस्वरूपाभिधित्सयाऽऽह-द्रव्यस्य पर्याया-ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थो बहुवचननिर्देश इति गाथार्थः ।। इदानीमस्तिकायादिधर्मस्वरूपप्रतिपिपादयिषयाऽऽहनि.[४१] धम्मत्थिकायधम्मो पयारधम्मो यविसयधम्मो य। लोइयकुप्पावयणिअलोगुत्तरलोगऽनेगाविहो। वृ. धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy