________________
अध्ययनं -१, उद्देशकः - [नि. ३७ ] केचन त्वनधिगताः, व्याख्यालक्षणं चेदम् -
२१
तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् ।
संहिता च पदं चैव, पदार्थः पदविग्रहः । चालनाप्रत्यवस्थानं, व्याख्या तत्रस्य षड्विधा ॥
इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः । किं च प्रकृतम् ?, सूत्रानुगमे सूत्रमुच्चारणीयमिति, तच्चेदं मू. ( १ ) धम्मो मंगलमुक्किटं, अहिंसा संजमो तवो । देवामि तं नमसंति, जस्स धम्मे सया मणो ॥
वृ. तत्रास्खलितपदोच्चारणं संहिता, सा पाठसिद्धैव। अधुना पदानि - धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा: अपि तं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र " धृञ् धारणे" इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा " कृष् विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तसयेदं रूपमृत्कृष्टमिति । तथा 'तृहि हिसि हिंसायाम्" इत्यस्य "इदितो नुम् धातोः” इति नुमि कृते स्त्र्यधिकारे टाबन्तस्य नञ्पूर्वस्येदं रूपं यदुताहिंसेति । तथा " यमु उपरमे" इत्यस्य धातोः संपूर्वस्याप्प्रत्यान्तस्य संयम इति रूपं भवति । तथा " तप सन्तापे" इत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति । तथा “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिस्वप्नकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति । तथा नमसित्यस्य प्रातिपदिकस्य‘“नमोवरिवश्चित्रड: क्यच्" इति क्यजन्तस्य लक्रियान्तादेशस्ततश्च नमस्यन्तीति भवति । तथा यदितिसर्वनाम्नः षष्ठ्यन्तस्य यस्येति भवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले दा” इति दाप्रत्ययः “सर्वस्य सोऽन्यतरस्यां दि" इति स आदेशः सदा । तथा "मन ज्ञाने" इत्यस्य धातोरसुन्प्रत्ययान्तस्यमन इति भवति । इतिपदानि ।
1
"
साम्प्रतं पदार्थ उच्यते-तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्म:, तथा चोक्तम्"दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः ।
धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः ॥"
मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, 'उत्कृष्टं' प्रधानम्, न हिंसाप्राणातिपातविरतिरित्यर्थः, ‘संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः - अनशनादि, दीव्यन्तीतिदेवाः क्रीडन्तीत्यादि भावार्थ:, अपि सम्भावने देवा अपि मनुष्यास्तु सुतरां, 'त' मित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम्, यस्य जीवस्य किम् ? - 'धर्मे' प्रागभिहितस्वरूपे 'सदा' सर्वकालं 'मन' इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान्न प्रदर्शित इति । चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद् वक्ष्यामः । प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाह
नि. [३८]
कत्थइ पुच्छर सीसो कहिंचऽपुट्ठा कहंति आयरिया ।
सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए ।
वृ.
क्वचित्किाञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम्, इत्थमनयोः प्रवृत्तिः । तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org