________________
-
अध्ययनं-१, उद्देशकः - [नि. ४१] प्रदेशात्मक: अस्तिकायधर्मइति। अन्ये तु व्याचक्षते-धर्मास्तिकायादि-स्वभावोऽस्तिकायाधर्म इति, एतच्चायुक्तम्, तत्र धर्मास्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्मा-व्यतिरेकादिति। तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थ, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, स च किम्? - विषीदन्त्येतेषु प्राणिन इति विषयारूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिबन्ध-नत्वेन चास्य प्राधान्यख्यापनार्थं द्रव्यधर्मात् पृथगुपन्यासः । इदानीं भावधर्मः, स च लौकिका-दिभेदभिन्न इति, आह च-लौकिक: कुप्रावचनिक: लोकोत्तरस्तु, अत्र 'लोगोऽणेगविहो'त्ति लौकिकोऽनेकविध इति गाथार्थः।। तदेवानेकविधत्वमुपदर्शयन्नाहनि.[४२] गम्मपसुदेसरज्जे पुरवरगामगणगोट्ठिराईणं।
सावज्जो उकुतित्थियधम्मो नजिनेहि उपसत्थो। वृ.तत्र गम्यधर्मो-यथा दक्षिणापथे मातुलदुहिता गम्या उत्तरापथे पुनरगम्यैव, एवं भक्ष्याभक्ष्यपेयापेयविभाषाकर्त्तव्येती,पशुधर्मो-मात्रादिगमनलक्षणः, देशधर्मो देशाचारः स च प्रतिनियत एव नेपथ्यादिलिङ्गभेद इति, राज्यधर्म:-प्रतिराज्यं भिन्नः, सच करादिः, पुरवरधर्मः-प्रतिपुरवरं भिन्नःक्वचित्किञ्चिद्विशिष्टोऽपि पौरभाषाप्रदानादिलक्षणः सद्वितीया योषिद्नेहान्तरं गच्छतीत्यादिलक्षणोवा, ग्रामधर्मः-प्रतिग्रामंभिन्नः, गणधर्मो-मल्लादिगणव्यवस्था, यथा समपादपातेन विषमग्रह इत्यादि, गोष्ठीधर्मो-गोष्ठीव्यवस्था, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्त्तव्यमित्यादिलक्षणा, राजधर्मो-दुष्टेतरनिग्रहपरिपालनादिरिति। भावधर्मता चास्य गम्यादीनां विवक्षया भावरूपत्वात्द्रव्यपर्यायत्वाद्वा, तस्यैव चद्रव्यानपेक्षस्यविवक्षितत्वात्, लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्, देशराज्यादिभेदश्चैकदेश एवानेकराज्यसम्भव इत्येवं स्वधिया भाव्यम् इत्युक्तो लौकिक:, कुप्रावचनिक उच्यते-असावपि सावधप्रायो लौकिककल्प एव, यत आह-"सावज्जो उ" इत्यादि, अवयं-पापं सहावद्येन सावा, तुशब्दस्त्वेवकारार्थः, स चावधारणे, सावद्य एव, कः? - 'कुतीर्थिकधर्मः' चरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह-न'जिनैः' अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः 'प्रशंसितः' स्तुत: सारम्भपरिग्रहत्वात्, अत्र बहुवक्तव्यमतत्तु नोच्यते, गमनिकामात्रफलत्वात् प्रस्तुतव्यापारस्येतिगाथार्थः।।
उक्तः कुप्रावचनिकः, साम्प्रतं लोकोत्तरं प्रतिपादयत्राहनि.[४३] दुविहो लोगुत्तरिओ सुअधम्मो खलु चरित्तधम्मो अ।
सुअधम्मो सज्झाओ चरित्तधम्मो समणधम्मो।। वृ.द्विविधो-द्विप्रकारो लोकोत्तरो' लोकप्रधानो, धर्म इति वर्त्तते, तथा चाहश्रुतधर्मः खलु चारित्र-धर्मश्च, तत्र श्रुतं-द्वादशाङ्गं तस्य धर्मः, खलुशब्दो विशेषणार्थः, किं विशिनष्टि? सहि वाचनादिभेदाचित्र इति, आह च-श्रुतधर्मः स्वाध्यायः-वाचनादिरूप, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति। तथा चारित्रधर्मश्च, तत्र “चारगतिभक्षणयोः" इत्यस्य "अर्तिलूधूसूखनसहचार इत्रन्" इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम्, अशेषकर्मक्षपाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्म: चारित्रधर्म इति। च: समुच्चये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org