________________
२१७
अध्ययनं-८, उद्देशकः - [नि.३०९] मू. (४०४) जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं ।
एवं खुबंभयारिस्स, इत्थीविग्गहओ भयं ।। वृ. कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यन्न कारणमाह-'जह'त्ति सूत्रं, यथा 'कुक्कुटपोतस्य' कुक्कुटचेल्लस्य 'नित्यं' सर्वकालं 'कुललतो' मार्जारात् भयम्, एवमेव ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीरद्भयम् । विग्रहग्रहणं मृतविग्रहादपी भयख्या-पनार्थमिति सूत्रार्थः ॥ मू.(४०५) चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं।
भूक्खरंपिव दट्टणं, दिढि पडिसमाहरे॥ वृ. यतश्चैवमतः-'चित्त'त्ति सूत्रं, 'चित्तभित्ति' चित्रगतां स्त्रियं 'न निरीक्षेत' न पश्येत्, नारी वा सचेतनामेव स्वलङ्कताम्, उपलक्षणमेतदनलंकृतां च न निरीक्षेत, कथञ्चिद्दर्शनयोगेऽपि 'भास्करमिव' आदित्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेद्' द्रागेव निवर्तयेदिति सूत्रार्थः ।। मू.(४०६) हत्थपायपलिच्छिन्नं, कण्णनासविगप्पिअं।
अवि वाससयं नारिं, बंभयारी विवज्जए। वृ. किंबहुना?, हत्थ'त्ति सूत्रं, हस्तपादप्रतिच्छिन्ना' मिति प्रतिच्छिन्नहस्तपादां ‘कर्णनासाविकृत्ता'मिति विकृत्तकर्णना सामपि वर्षशतिकां नारीम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, 'ब्रह्मचारी' चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः ॥ मू. (४०७) विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं ।
नरस्सत्तगवेसिस्स, विसं तालउडं जहा। वृ.अपिच-'विभूस'त्ति सूत्रं, 'विभूषा' वस्त्रादिराढा 'स्त्रीसंसर्गः' येन केनचित्प्रकारणे स्त्रीसंबन्धः 'प्रणीतरसभोजनं' गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादिनरस्य आत्मगवेषिण' आत्महितान्वेषणपरस्य 'विषं तालपुटं यथा' तालमात्रव्यापत्तिकरविषकल्पमहितमिति। .. मू. (४०८) अंगपच्चंगसंगाणं, चारुलविअपेहि।।
इत्थीणं तं न निज्झाए, कामरागविवडणं॥ वृ. अंग'त्ति सूत्रं, 'अङ्गप्रत्यङ्गसंस्थान'मिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानिनयनादीनि एतेषां संस्थानं-विन्यासविशेषं, तथा चारु-शोभनं 'लपितप्रेक्षितं' लपितं-जल्पितं प्रेक्षितंनिरीक्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत' न पश्येत्, किमित्यत आहकामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति सूत्रार्थः ।। मू. (४०९) विसएसु मणुन्नेसु, पेमं नाभिनिवेसए।
अनिच्चं तेसिं विनाय, परिणामं पुग्गलाण उ। वृकिं च -'विसएसु'त्ति सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत्' न कुर्यात्, एवममनोज्ञेषुद्वेषम्, आह-उक्तमेवेदं प्राक् ‘कण्णसोक्खेही'त्यादौ किमर्थं पुनरुपन्यास इति ?, उच्यते, कारणविशेषाभिधानेन विशेषो-पलम्भार्थमिति, आह च- अनित्यमेव' परिणामानित्यतया 'तेषां' पुद्गलानां, तुशब्दाच्छब्दा-दिविषयसंबन्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org