________________
२१६
दशवैकालिक-मूलसूत्र-८/-/३९९ 'असंदिग्धां' निःशङ्कितां 'प्रतिपूर्णां' स्वरादिभिः 'व्यक्ताम्' अलल्लां 'जितां' परिचिताम् 'अजल्पनशीलां' नोच्चैर्लग्नविलग्नाम् 'अनुद्विग्नां' नोद्वेगकारिणीमेवंभूतां भाषां 'निसृजेद्' ब्रूयाद् 'आत्मवान्' सचेतन इति सूत्रार्थः ।। मू. (४००) आयारपन्नत्तिधरं, दिट्ठिवायमहिज्जगं।
वायविक्खलिअंनच्चा, न तं उवहरो मुनी॥ वृ. प्रस्तुतोपदेशाधिकार एवेदमाह-'आयार'त्ति सूत्रं, 'आचारप्रज्ञप्तिधर'मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं 'वाग्विस्खलितं ज्ञात्वा' विविधम्अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न 'तम्' आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारदिधरस्य वाचि कौशलमित्येवम्, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यतेनाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवाद्, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः ।। मू.(४०१) नक्खत्तं सुमिणं जोगं, निमित्त मंतभेसजं।
गिहिणो तं न आइक्खे, भूआहिगरणं पयं॥ वृ. किं च -'नक्खत्तं'ति सूत्रं, गृहिणा पृष्टः सन्नक्षत्रम्-अश्विन्यादि स्वप्नं' शुभाशुभफलमनुभूतादि 'योग' वशीकरणादि 'निमित्तम्' 'मन्त्रं' वृश्चिकमन्त्रादि भेषजम्' अतीसाराद्यौषधं 'गृहिणाम्' असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह-'भूताधिकरणं पद'मिति भूतानिएकेन्द्रियादीनि संघटनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीति-परिहारार्थमित्थं ब्रूयाद्अनधिकारोऽत्र तपस्विनामिति सूत्रार्थः॥ मू. (४०२) अन्नद्वं पगडं लयणं, भइज्ज सयनासनं।
उच्चारभूमिसंपन्नं, इत्थीपसुविज्जिअं॥ वृ.किं च-'अन्न8'ति सूत्रं, 'अन्यार्थं प्रकृतं' न साधुनिमित्तमेव निर्वर्तितं 'लयनं' स्थानं वसतिरूपं 'भजेत्' सेवेत, तथा शयनासन'मित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते-'उच्चारभूमिसंपन्नम्' उच्चारप्रस्त्रवणादिभूमियुक्तं, तदहि-तेऽसकृत्तदर्थं निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित'मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्रयाद्यालोकनादिरहितमिति सूत्रार्थः॥ म.(४०३) विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं ।
गिहिसंथवं न कुज्जा, कुज्जा साहूहि संथवं ॥ व.तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह"विवित्ता यत्ति सूत्रं, 'विविक्ता च' तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवे-च्छय्या-वसतिर्यादिततो 'नारीणां' स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तवं' गृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तवं' परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org