________________
अध्ययनं-८, उद्देशकः - [नि. ३०९]
२१५ वृ.तथा-'जोगं च'त्ति सूत्रं, 'योगंच' त्रिविधं मनोवाक्कायव्यापारं श्रमणधर्मे' क्षान्त्यादिलक्षणे युञ्जीत अनलसः' उत्साहवान्, 'ध्रुवं' कालाद्यौचित्येन नित्यं संपूर्णं सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति। मू. (३९४) इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई।
बहुस्सुअंपज्जुवासिज्जा, पुच्छिज्जत्थविनिच्छयं ।। वृ. एतदेवाह-'इहलोग'त्ति सूत्रं, 'इहलोकपरत्रहितम्' इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थेन ज्ञानादिनाकरणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- 'बहुश्रुतम्' आगमवृद्धं 'पर्युपासीत' सेवेत, संवमानश्च पृच्छेद् 'अर्थविनिश्चयम्' अपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति सूत्रार्थः॥ मू.(३९५) हत्थं पायं च कायं च, पणिहाय जिइंदिए।
- अल्लीणगुत्तो निसिए, सगासे गुरुणो मुनी। वृ. पर्युपासीनश्च ‘हत्थं ति सूत्रं, हस्तं पादं च कायं च ‘प्रणिधाये'ति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत्, ईपल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति सूत्रार्थः।। मू.(३९६) न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ।
न य ऊरं समासिज्जा, चिट्ठिज्जा गुरुणंतिए। वृ.किं च-'न पक्खओ'त्ति सूत्रं, न पक्षतः- पार्श्वतः न पुरतः-अग्रतः नैव 'कृत्यानाम्' आचार्याणां 'पृष्ठतो' मार्गतो निषीदेदिति वर्त्तते, यथासंख्यमविनयवन्दमानात्रायादर्शनादिदोषप्रसङ्गात् । न च 'ऊरं समाश्रित्य' ऊरोरुप'रुं कृत्वा तिष्टेद्गुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः ॥ मू. (३९७) अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा ।
पिट्ठिमंसं न खाइज्जा, मायामोसं विवज्जए॥ वृ. उक्तः कायप्रणिधिः, वाक्प्रणिधिमाह-'अपुच्छिओ'त्ति सूत्रं, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तडेंवमिति, तथा 'पृष्ठिमांसं' परोक्षदोषकीर्तनरूपं 'न खादेत्' न भाषेत, 'मायामृषां' मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः॥ मू.(३९८) अप्पत्तिअंजेण सिआ, आसु कप्पिज्ज वा परो।
सव्वसो तं न भासिज्जा, भासं अहिगणामिणिं॥ वृ.किंच-'अप्पत्तिअंति सूत्रं, 'अप्रीतिर्येन स्या'दिति प्राकृतशैल्या येनेतियया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा 'आशु' शीघ्रं 'कुप्येद्वा परो'रोषकार्यं दर्शयेत् 'सर्वशः' सर्वावस्थासु 'ताम्' इत्थंभूतां न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकविरुद्धामिति सूत्रार्थः॥ मू. (३९९) दिलु मिअं असंदिद्ध, पडिपुत्रं विअंजि।
अयंपिरमणुब्बिग्गं, भासं निसिर अत्तवं । वृ. भाषणोपायमाह-'दिटुं'ति सूत्रं, 'दृष्टां' दृष्टार्थविषयां 'मितां' स्वरूपप्रयोजनाभ्याम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org