SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ दशवैकालिक - मूलसूत्रं - ८ /-/ ३८७ वृ. तदुपायमाह - 'कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्द्धन- व्यपदेशः, यतश्चैवमतो वमेच्चतुरो 'दोषान्' एतानेव क्रोधादीन्, हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः ॥ मू. ( ३८८ ) कोहो पीइं पणासेइ, मानो विनयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो ॥ वृ. अवमने त्विहलोक एवापायमाह 'कोह'त्ति सूत्रं, क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशन, तत्त्वतस्त्रयाणामपि तद्भावभावित्वादिति सूत्रार्थः ॥ उवसमेन हणे कोहं, मानं मद्दवया जिने । मायं चज्जवभावेण, लोभं संतोसओ जिने ॥ मू. ( ३८९ ) वृ. यत एवमत:-'उवसमेण' त्ति सूत्रं, 'उपशमेन' शान्तिरूपेण हन्यात् क्रोधम्, उदय-. निरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन- अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन-अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं 'संतोषतः ' निःस्पृहत्वेन जपेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥ मू. ( ३९० ) कोहो अ मानो अ अनिग्गहीआ, माया अ लोभो अ पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुनव्भवस्स ॥ वृ. क्रोधादीनामेव परलोकापायमाह 'कोहो'त्ति सूत्रं, क्रोधश्च मानश्चानिगृहीतौ - उच्छ्रङ्खलौ, माया च लोभश्च 'विवर्धमानौ च' वृद्धिं गच्छन्तौ, 'चत्वार' एते क्रोधादयः 'कृत्स्नाः' संपूर्णाः 'कृष्णा वा' क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्जन्मतरोरिति सूत्रार्थः ॥ मू. (३९१ ) रायाणिएसु विनयं पउंजे, धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि ॥ वृ. यतएवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह- 'रत्नाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'ध्रुवशीलताम्' अष्टादशशीलाङ्ग - सहस्त्रपालनरूपां 'सततम्' अनवरतं यथाशक्त्या न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, ‘पराक्रमेत' प्रवर्त्तेत 'तपः संयमे' तपः प्रधाने संयम इति सूत्रार्थः ॥ मू. (३९२ ) निदं च न बहु मनिज्जा, सप्पहासं विवज्जए । मिहो कहाहिं न रमे, सज्झायंमि रओ सया । वृ. किंच- 'निद्दं च 'त्ति सूत्रं, 'निद्रां च न बहु मन्येत' न प्रकामशायी स्यात् । 'सप्रहासं च' अतीवहासरूपं विवर्जयेत्, 'मिथ: कथासु' राहस्यिकीषु न रमेत, 'स्वाध्याये' वाचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ मू. (३९३) Jain Education International जोगं च समणधम्मंमि, जुंजे अनलसो धुवं । जुत्तो अ समणधम्ममि, अट्टं लहइ अनुत्तरं । For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy