________________
२१८
दशवैकालिक - मूलसूत्र - ८/- /४०९
नामिति योग:, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह - 'परिणामं ' पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि सन्तो विषया: क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया इति तुच्छं रागद्वेषयोर्निमित्तमिति सूत्रार्थः ॥
मू. (४१० )
पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा। विणी अतण्हो विहरे, सीईभूएण अप्पणा ॥
वृ. एतदेव स्पष्टयन्नाह - 'पुद्गलानां' शब्दादिविषयान्तर्गतानां 'परिणामम्' उक्तलक्षणं तेषां 'ज्ञात्वां' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्णः ' अपेताभिलाषः शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यग्न्युपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥
मू. (४११ )
जाइ सद्धाइ निक्खतो, परिआयद्वाणमुत्तमं । तमेव अनुपलिज्जा, गुणे आयरिअसंमए ॥
वृ. किं च- 'जाइ' त्ति सूत्रं, यया 'श्रद्धया' प्रधानगुणस्वीकरणरूपा निष्क्रान्तोऽविरतिजम्बालात् 'पर्यायस्थानं' प्रव्रज्यारूपम् 'उत्तमं' प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद्यत्रेन, क इत्याह- 'गुणेषु' मूलगुणादिलक्षणेषु, 'आचार्यसुमतेषु' तीर्थकरादिबहुमतेषु अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते, तामेव श्रद्धामनुपालयेदुणेषु. किंभूताम् ? - आचार्यसंमतां, न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः ॥
मू. (४१२ )
तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्ठए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥ वृ. आचारप्रणिधिफलमाह 'तपश्चेदम् अनशनादिरूपं साधुलोकप्रतीतं 'संयमयोगं च' पृथिव्यादिविषयं संयमव्यापारं च 'स्वाध्याययोगं च' वाचनादिव्यापारं 'सदा' सर्वकालम् 'अधिष्ठाता' तपः प्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्याप-नार्थं भेदेनाभिधानमिति । 'स' एवंभूतः 'शूर इव' विक्रान्तभट इव 'सेनया' चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् 'समाप्तायुधः ' संपूर्णतपः प्रभृतिखगाद्यायुधः 'अलम्' अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निराकरणायेति सूत्रार्थः ॥
मू. (४१३) सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥
वृ. एतदेव स्पष्टयन्नाह - 'स्वाध्याय एव सद्ध्यानं स्वाद्ध्यायसद्ध्यानं तत्र रतस्य - सक्तस्य 'त्रातुः' स्वपरोभयत्राणशीलस्य 'अपापभावस्य' लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य 'तपसि ' अनशनादौ यथाशक्ति रतस्य् 'विशुद्धयते' अपैति यद् 'अस्य' साधोः 'मलं' कर्ममलं 'पुराकृतं' जन्मान्तरोपात्तं, दृष्टान्तमाह- 'समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति सूत्रार्थः ॥ मू. (४१४ ) से तारिसे दुक्खसहे जिइंदिए, सुरण जुत्ते अममे अकिंचने ।
विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमि ॥ ति बेमि ॥ वृ. ततः - 'से तारिसे 'त्ति सूत्रं, 'स तादृशः' अनन्तरोदितगुणयुक्तः साधुः 'दुःख - सहः ' परीषहजेता 'जितेन्द्रियः' पराजित श्रोत्रेन्द्रिययादिः 'श्रुतेन युक्तो' विद्यावानित्यर्थः 'अममः' सर्वत्र ममत्वरहितः 'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मधने'
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only