SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ८, उद्देशक:- [ नि. ३०९ ] मू. ( ३७० ) बहु सुणेहि कन्नेहिं, बहुं अच्छीहिं पिच्छइ । न य दिट्टं सुअं सव्वं, भिक्खू, अक्खाउमरिहइ || वृ. गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह - 'बहु' न्ति सूत्रं, अथवा उपदेशाधिकारे सामान्येनाह - 'बहु' न्ति सूत्रं, 'बहु' अनेकप्रकारं शोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा 'बहु' अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरो भयाहितमपि 'श्रुता ते रुदपी पत्नी 'त्यवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातात्, अर्हति च स्वपरोभयहितं 'दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः ॥ मू. (३७१ ) २११ सुअं वा जइ वा दिट्ठ, न लविज्जोवधाइअं । नय केणइ उवाएणं, गिहिजोगं समायरे । वृ.एतदेव स्पष्टयन्नाह-‘सुअं'ति सूत्रं, श्रुतं वा अन्यतः यदिवा दृष्टं स्वयमेव 'नालपेत्' न भाषेत, ‘औपघातिकम्' उपघातेन निर्वृत्तं तत्फलं वा, यथा-- चौरस्त्वमित्यादि, अतो नालपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयाऽपि भङ्गया 'गृहियोगं' गृहिसंबन्धं तद्वालग्रहणादिरूपं गृहिव्यापारं वा- प्रारम्भरूपं 'समाचरेत्' कुर्यान्नैवेति सूत्रार्थः ॥ मू. ( ३७२ ) निद्वाणं रसनिज्जूढं, भद्दगं पावगंति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे ॥ वृ. किं च 'निट्ठाणं 'ति सूत्रं, 'निष्ठानं' सर्वगुणोपेतं संभृतमन्त्रं रसं निर्यूढमेतद्विपरीतं कदशनम्, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग् लब्धमिति अपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेर्न निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदपरमशोभनं वेति सूत्रार्थः ॥ मू. (३७३) न य भोअणंमि गिद्धो, चरे उंछं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसि आहडं ॥ वृ. किं च - 'न य'त्ति सूत्रं, न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो ज्ञाताज्ञातमजल्पन शीलो धर्मलाभमात्राभिधायी चरेत्, तत्रापि 'अप्रासुकं' सचित्तं सन्मिश्रादि कथञ्चिग्द्गृहीतमपि न भुञ्जीत, तथा क्रीतमौद्देशिकाहृतं प्राकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्यपलक्षणमिति सूत्रार्थः ॥ मू. ( ३७४ ) संनिहिं च न कुव्विज्जा, अनुमायंपि संजए। मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए | वृ.'संनिहिं'ति सूत्रं, 'संनिधिं च ' प्राडनिरूपितस्वरूपां न कुर्यात् 'अणुमात्रमपि' स्तोकमपि 'संयत: ' साधुः, तथा मुधाजीवीति पूर्ववत्, असंबद्धः पद्मिनीपत्रोकवद्गृहस्थैः, एवभूतः सन् भवेत् 'जगन्निश्रितः ' चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थः ॥ मू. ( ३७५ ) लूहवित्ती सुसंतुट्टे, अप्पिच्छे सुहरे सिआ । Jain Education International आसुरतं न गच्छिज्जा, सुच्चा नं जिनसासनं ॥ वृ. किंच - 'लहू'त्ति सूत्रं, रूक्षै: - वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, सुसंतुष्टो येन For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy