________________
२१२
दशवैकालिक - मूलसूत्रं - ८/-/ ३७५ वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहारपरित्यागी, सुभरः स्यात् अल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोग, रूक्षवृत्तिः स्यादित्यादि । तथा 'आसुरत्वं' क्रोधभावं न गच्छेत् कचित् स्वपक्षादौ श्रुत्वा 'जिनशासनं' क्रोधविपाकप्रतिपादकं वीतरागवचनं । “जहा चउहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा- कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जं नं मए एस पुरिसे अन्नाणी मिच्छादिट्ठी अक्कोसइ हाइ वा तं न मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरज्झतित्ति सम्ममहियासमाणस्स निज्जरा एव भविस्सइ 'त्ति सूत्रार्थः ॥
मू. ( ३७६ )
कसुक्खेहिं सद्देहिं, पेम्मं नाभिनिवेस । दारुणं कक्कसं फासं, कारण अहिआसए ।
वृ. तथा 'कण्ण'त्ति सूत्रं, कर्णसौख्यहेतवः कर्णसौख्याः शब्दा - वेणुवीणादिसंबन्धिनस्तेषु 'प्रेम' रागं 'न अभिनिवेशयत्' न कुर्यादित्यर्थः, 'दारुणम्' अनिष्टं 'कर्कशं' कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः ॥
मू. ( ३७७)
खुहं पिवासं दुस्सिज्जं, सीउण्हं अरइं भयं । अहिगासे अव्वहिओ, देहदुक्खं महाफलं ॥
वृ. किंच - 'खुहं पि' त्ति सूत्रं, 'क्षुधं' वुमुक्षां 'पिपासां' तृषं 'दुःशय्यां' विषमभूम्यादिरूपां शीतोष्णं प्रतीतम् 'अरतिं' मोहनीयोद्भवां 'भयं' व्याघ्रादिसमुत्थमतिसहेदेतत्सर्वमेव 'अव्यथितः' अदीनमनाः सन् देहे दुःखं महाफलं संचन्त्येिति वाक्यशेषः । तथा च शरीरे सत्येतदुःखं, शरीरं चासारं सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति सूत्रार्थः ॥
मू. ( ३७८ )
अत्थंगयंमि आइच्चे, पुरत्था अ अनुग्गए ।
आहारमइयं सव्वं, मनसावि न पत्थए ।
वृ. किंच- ' अत्थं 'ति सूत्रं, 'अस्तं गत आदित्ये' अस्तपर्वतं प्राप्ते अदर्शनीभूते वा. 'पुरस्ताच्चानुद्गते' प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं 'सर्वं' निरवशेषमाहारजातं मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्माणा वेति सूत्रार्थः ॥
मू. ( ३७९ )
अतिंतिणे अचवले, अप्पभासी मिआसने । हविज्ज उअरे दंते, थोवं लद्धुं न खिसए ॥
वृ. दिवाप्यलभमान आहारे किमित्याह-'अतिन्तिणो भवेत्, अतिन्तिणो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः । तथा 'अल्पभाषी' कारणे परिमितवक्ता, तथा 'मिताशनो' मितभोक्ता 'भवे' दित्येवंभूतो भवेत्, तथा 'उदरे दान्तो' येन वा तेन वा वृत्तिशील:, तथा 'स्तोकं लब्ध्वा न खिंसयेत्' देयं दातारं वा न हीलयेदिति । मू. ( ३८० ) न बाहिरं परिभवे, अत्ताणं, न समुक्कसे ।
सुआलभे न मज्जिज्जा, जच्चा तवस्सिबुद्धिए ॥
वृ. मदवर्जनार्थमाह- 'न बाहिरं' ति सूत्रं, न 'बाह्यम्' आत्मनोऽन्यं परिभवेत्, तथा आत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति श्रुतलाभाभ्यां न माद्येत, पण्डितो लब्धिमानहमित्येवं,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International