SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २१० दशवैकालिक - मूलसूत्रं - ८ /-/ ३६४ त्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति सूत्रार्थः ॥ भू. (३६५ ) सिनेहं पुप्फसुहुमं च, पाणुत्तिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्टमं ॥ वृ. 'सिनेहं 'त्ति सूत्रं, 'स्नेह' मिति स्नेहसूक्ष्मम् - अवश्यायहिममहिकाकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'पाणी' ति प्राणिसूक्ष्ममनुद्धरिः कुन्थुः स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात् । 'उत्तिगं' तथैव चे' त्यत्तिंगसूक्ष्म-कीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति । तथा पनकसूक्ष्मं प्राय: प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीन: पनक इति, तथा 'बीजसूक्ष्मं' शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, 'हरितं चे 'ति हरितसूक्ष्मं, तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, 'अण्डसूक्ष्मं चाष्टम' मिति एतच्च मक्षिकाकीटकागृहकोलिकाब्राह्मणीकुकलासाद्यण्डमिति सूत्रार्थः ॥ मू. ( ३६६ ) एवमे आणि जाणिज्जा, सव्वभावेण संजए। अप्पमत्तो जए निच्च सव्विदिअसमाहिए ।। वृ. ‘एवमेआणि'त्ति सूत्रं, 'एवम्' उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन 'सर्वभावेन' शक्तयनुरूपेण स्वरूपसंरक्षणादिना 'संयतः' साधुः किमित्याह 'अप्रमत्तो' निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति 'नित्यं' सर्वकालं 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥ मू. ( ३६७ ) धुवं च पडिलेहिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसनं ।। वृ. तथा 'धुवन्ति सूत्रं, तथा 'ध्रुव च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत सिद्धान्तविधिना 'योगे सति' सति सामर्थ्ये अन्यूनातिरिक्तं, किं तदित्याह‘पात्रकम्बलम्’ पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णा- सूत्रमयपरिग्रहः, तथा 'शय्यां' वसतिं द्विकालं त्रिकालं च उच्चारभुवं च - अनापातवदादि स्थण्डिलं तथा 'संस्तारकं ' तृणमयादिरूपमथवा 'आसनम्' अपवादगृहीतं पीठकादि प्रत्युपेक्षे-तेति सूत्रार्थः ॥ उच्चारं पासवणं, खेलं सिंधाणजल्लिअं । फासुअं पडिलेहित्ता, परिट्टाविज्ज संजए । मू. (३६८ ) वृ. तथा 'उच्चारं 'ति सूत्रं, उच्चारं प्रस्त्वणं श्लेष्म सिंघाणं जल्लमिति प्रतितानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेष:, 'परिस्थापयेद्' व्युत्सृजेत् संयत इति सूत्रार्थः ॥ मू. (३६९) पविसित्तु परागारं, पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रूवेसु मनं करे। वृ. उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह- 'पविसित्तु' सूत्रं, प्रविश्य 'परागारं ' परगृहं पानार्थं भोजनस्य ग्लानादेरौषधार्थं वा यतंगवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च 'रूपेषु' दातृकान्तादिषु मनः कुर्यात्, एवंभूतान्येतानीति न मनो निवेशयत्, रूपग्रहणं रसाद्युपलक्षणमिति सूत्रार्थः । -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy