________________
अध्ययनं ८, उद्देशक:- [नि. ३०९ ]
२०९
वृ. प्रतिपादितस्तेजः कार्याविधिः, वायुकायविधिमाह- 'तालिअंटेण' त्ति सूत्रं, 'तालवृन्तेन' व्यजनविशेषण ‘पत्रेण' पद्मिनीपत्रादिना 'शाखया' वृक्षडालरूपया 'विधूपनेन वा' व्यजनेन वा, किमित्याह-न वीजयेद् 'आत्मनः कायं' स्वशरीरमित्यर्थः 'बाह्यं वापि पुद्गलम्' उष्णोदकादीति सूत्रार्थः ॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाहतणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मनसावि न पत्थए ॥
मू. (३६० )
वृ.‘तण'त्ति सूत्रं, तृणवृक्षमित्येकवद्भावः, तृणानि -दर्भादीनि वृक्षाः कदम्बादयः, एतान्न छिन्द्यात्, फलं मूलं वा कस्यचिद्वृक्षादेर्न छिन्द्यात्, तथा 'आमम्' अशस्त्रोपहतं 'विविधम्' अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अश्नीयादिति सूत्रार्थः ||
मू. (३६१ )
गहणेसु न चिट्टिज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ॥
वृ. तथा 'गहणेसु'त्ति सूत्रं, 'गहनेषु' वननिकुञ्जेषु न तिष्ठेत्, संघट्टनादिदोष-प्रसङ्गात्, तथा 'बीजेषु' प्रसारितशाल्यादिषु 'हरितेषु वा' दूर्वादिषु न तिष्ठेत्, 'उदके तथा नित्यम्' अत्रोदकम्-अनन्तवनस्पतिविशेष:, यथोक्तम्- 'उदए अवए पणए' इत्यादि, उदकेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः - सर्पच्छत्रादिः पनकःउल्लिवनस्पतिरिति सूत्रार्थः । उक्तो वनस्पतिकायविधिः, त्रसकायविधिमाह
मू. (३६२ ) तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएसु, पासेज्ज विविहं जगं ॥
वृ. 'तस'त्ति सूत्रं, 'त्रसप्राणिनो' द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह-वाचा अथवा 'कर्मणा' कायेन, मनसस्तदन्तर्गतत्वाद - ग्रहणम्, अपि च- 'उपरत: ' सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं 'जगत्' कर्मपरतन्त्रं नरकादिगतिरूपं, निर्वेदायेति सूत्रार्थः । अट्ठ सुहुमाइ पेहाए, जाई जाणित्तु संजए ।
मू. (३६३)
दयाहिगारी भूएसु, आस चिट्ठ सएहि वा ॥
वृ. उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह-'अट्ठ' त्ति सूत्रं, अष्टौ 'सूक्ष्माणि' वक्ष्यमाणानि प्रेक्ष्योपयोगत आसीत तिष्टेच्छयीत वेति योगः, किंविशिष्टानीत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्याद्, अन्यथा तेषां सातिचारतेति सूत्रार्थः ॥
मू. ( ३६४ ) कयराइं अट्ठ सुहुमाइं ?, जाई पुच्छिज्ज संजए। इमाइं ताइं मेहावी, आइक्खिज्ज विअक्खणो ॥
वृ.आह-‘कयराणि' सूत्रं, कतराण्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयत: ?, अनेन दयाधिकारिण एव एवंविधेषु यत्त्रमाह, स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति । 'अमूनि' तानि अनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्त
2714
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org