________________
२०८
दशवैकालिक-मूलसूत्र-८/-/३५३ करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्यथेति सूत्रार्थः ।। मू. (३५४) पुढवि भित्ति सिलं लेखें, नेव भिंदे न संलिहे ।
तिविहेण करणजोएणं, संजए सुसमाहिए। वृ.एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गत-विधीन्विधानतो विशेषेणाह-'पुढवि'त्ति सूत्रं, पृथिवीं शुद्धां 'भित्तिं' तटीं 'शिलां' पाषाणात्मिकां 'लेष्टुम्' इष्टालखण्डं नैव भिन्द्यात् तो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं 'संलेखनम्' ईषल्लेखनं 'त्रिविधेन करणयोगेन' न करोति मनसेत्यादिना संयतः' साधुः ‘सुसमाहितः' शुद्धभाव इति। मू. (३५५) सुद्धपुढवीं न निसीए, ससरक्खमि अआसने।।
__पमज्जितु निसीइज्जा, जाइत्ता जस्स उग्गहं।। वृ.तथा 'सुद्ध'त्ति सूत्रं, 'शुद्धपृथिव्याम्' अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा 'सरजस्के वा' पृथ्वीरजोऽवगुण्ठिते वा 'आसने' पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्यतां रजोहरणेन निषीदेत् 'ज्ञात्वे'त्वचेतनां ज्ञात्वा 'याचयित्वाऽवग्रह मिति यस्य संबन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः॥ मू. (३५६) सीओदगं न सेविज्जा, सिलावुटुं हिसाणि अ।
उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए। वृ.उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह'सीओदगं'ति सूत्रं, 'शीतोदकं' पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति। यद्येवं कथमयं वर्ततेत्याह-'उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं, प्रतिगृह्णीयावृत्त्यर्थं संयतः' साधुः, एतच्च सौवीराद्युपलक्षणमिति। मू. (३५७) उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे।
समुप्पेह तहाभूअं, नो नं संघट्टए मुनी। वृ.तथा 'उदउल्लं'ति सूत्रं, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहतः 'उदकाईम्' उदकबिन्दुचितमात्मनः 'कार्य' शरीरं स्निग्धं वा नैव 'पुञ्छयेद्' वस्त्रतृणादिभिः ‘न संलिखेत्' पाणिना, अपितु 'संप्रेक्ष्य' निरीक्ष्य 'तथाभूतम्' उदकादिरूपं नैव कायं 'संघट्टयेत्' मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः॥ मू. (३५८) इंगालं अगनि अच्चि, अलायं वा सजोइअं।
न उंजिज्जा न घट्टिज्जा, नो नं निव्वावए मुनी। वृ. उक्तोऽप्कायविधिः, तेजःकायविधिमाह-'इंगालं'ति सूत्रं, 'अङ्गारं' ज्वालारहितम् 'अग्निम्' अय:पिण्डानुगतम् 'अचिः' छिन्नज्वालम् 'अलातम्' उल्मुकं वा 'सज्योतिः' साग्निकमित्यर्थः, किमित्याह-नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनं, तथा नैनम्-अग्निं 'निर्वापयेद्' अभावमापादयेत् 'मुनिः' साधुरिति सूत्रार्थः ।। मू. (३५९) तालिअंटेण पत्तेण, साहाए विहुणेण वा।
न वीइज्जऽप्पणो कायं, बाहिरं वावि पुग्गलं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org