________________
अध्ययनं-८, उद्देशकः - [नि.३०६]
२०७ नि. [३०६] दंसणनाणचरित्ताणि संजमो तस्स साहणट्ठाए।
पणिही पउंजिअव्वो अनायणाई च वज्जाई ।। वृ.दर्शनज्ञानचारित्राणि संयम: संपूर्णः, तस्य' संपूर्णसंयमस्य साधनार्थं प्रणिधिः प्रशस्तः प्रयोक्तव्यः, तथा 'अनायतनानि च' विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ।। नि. ३०७] दुप्पणिहिअजोगी पुण लंछिज्जइ संजमं अयाणंतो।
वीसत्थनिसटुंगोव्व कंटइल्ले जह पडतो।। वृ. 'दुष्प्रणिहितयोगी पुनः' सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्छ्यतेखण्डयते संयममजानानः संयत एवेति । दृष्टान्तमाह-विश्रब्धो निसृष्टाङ्गस्तथा अयत्नपर: कंटकवति श्वम्रादौ यथा पतन् कुश्चिल्लञ्छ्यते तद्वदसौ संयत इति गाथार्थः ।। व्यतिरेकमाहनि.[३०८] सुप्पणिहिअजोगी पुण न लिप्पई पुव्वभणिअदोसेहि।
निद्दहइ अकम्माइं सुक्कतणाई जहा अग्गी ॥ वृ. 'सुप्रणिहितयोगी पुनः' सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते 'पूर्वभणितदोषैः' कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन,
दृष्टान्तमाह-शुष्कतृणानि यथा अग्निनिर्दहति तद्वदिति गाथार्थः ।। नि. [३०९] तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं ।
पणिहाणंमि पसत्थे भणिओ आयारपणिहित्ति ।। वृ.यस्मादेवमप्रशस्तप्रणिधिर्दुःखद इतरश्च सुखदस्तस्माद् 'अप्रशस्तं प्रणिधानम्' अप्रशस्तं प्रणिधीम् 'उज्झित्वा' परित्यज्य 'श्रमणेन' साधुना 'प्रणिधाने' प्रणिधौ ‘प्रशस्ते' कल्याणे, यत्नः कार्य इति वाक्यशेषः । निगमयत्राह-भणित आचारप्रणिधिरिति गाथार्थः ।।
उक्तो नाम-निष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सुत्रमुच्चारणीयं, तच्चेदम्मू. (३५१) आयारप्पणिहिं लद्धं, जहा कायव्व भिक्खुणा।
तंभे उदाहरिस्सामि, आनुपुब्बिं सुणेह मे। वृ.व्याख्या-'आचारप्रणिधिम्' उक्तलक्षणं लब्ध्वा' प्राप्य 'यथा' येन प्रकारेण कर्तव्यं विहितानुष्ठानं 'भिक्षुणा' साधुना 'तं' प्रकारं भे' भवद्भयः 'उदाहरिष्यामि' कथयिष्यामि 'आनुपूर्व्या' परिपाट्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति सूत्रार्थः ।। मू. (३५२) पुढविदगअगनिमारुअ, तणरुक्खस्सबीयगा।
तसा अ पाणा जीवत्ति, इइ वुत्तं महेसिणा। वृ.तं प्रकारमाह-'पुढवि'त्ति सूत्रं पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा' वर्धमानेन गौतमेन वेति। मू. (३५३) तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ
मनसा कायवक्केणं, एवं हवइ संजए। वृ. यतश्चैवमतः 'तेसिं'ति सूत्रं, अस्य व्याख्या-'तेषां' पृथिव्यादीनाम् 'अक्ष्णयोगेन' अहिंसाव्यापारेण नित्यं 'भवितव्यं' वर्तितव्यं स्यात् भिक्षुणा मनसा कायेन वाक्येन एभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org