________________
२०६
दशवैकालिक - मूलसूत्रं - ८ /-/ ३५१ महाभयानि चत्वारि, सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना 'एष' निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वान्नोइन्द्रियप्रणिधिः, कुशलपरिणामत्वादिति गाथार्थः ॥ एतदनिरोधे दोषमाह
नि. [ ३०१] जस्सवि अ दुप्पणिहिआ होंति कसाया तवं चरंतस्स । सो बाल वस्सीविव गयण्हाणपरिस्समं कुणइ ॥
वृ. यस्यापि कस्यचिद्यवहारतस्विनो दुष्प्रणिहिता - अनिरुद्धा भवन्ति 'कषाया: ' क्रोधादयः ‘तपश्चरतः' तपः कुर्वत इत्यर्थः स बालतपस्वीव उपवासपारणकप्रभूततरारम्भको जीवो(यथा) गजस्नानपरिश्रमं करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्रभूतकर्मबन्धोपपत्तेरिति गाथार्थः || अमुमेवार्थं स्पष्टतरमाह
नि. [ ३०२ ]
सामान्नमनुचरंतस्स कसाया जस्स उक्कडा होंति । मन्नामि उच्छुफुल्लं व निप्फलं तस्स सामन्नं ॥
वृ.' श्रामण्यमनुचरतः ' श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति क्रोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थः ॥ उपसंहरन्नाह
नि. [ ३०३] एसो दुविहो पणिही सुद्धो जइ दोसु तस्स तेसिं च । तो सत्थमपसत्थ लक्खणमज्झत्थनिप्पन्नं ॥
वृ. 'एषः' अनन्तरोदितो 'द्विविधः प्रणिधिः' इन्द्रियनोइन्द्रियलक्षणः 'शुद्धं' इति निर्दोषो भवति, यदि 'द्वयो:' बाह्याभ्यन्तरचेष्टयो: 'तस्य' इन्द्रियकषायवतः 'तेषां च' इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति-यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपि तत्त्वनीत्याऽभ्यन्तरैव चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः 'अध्यात्मनिष्पन्नम् ' अध्यवसानोद्गतमिति गाथार्थः । एतदेवाहमायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो ।
नि. [३०४]
धम्मत्था अपसत्थो इंदिअनोइंदिअप्पणिही ||
वृ. 'मायागारवसहितो' मातृस्थानयुक्त ऋद्धयादिगारवयुक्तश्चेन्द्रियनोइन्द्रिय- योर्निग्रहं करोति, मातृस्थानत ईर्यादिप्रत्युपेक्षणं द्रव्यक्षान्त्याद्यासेवनैं तथा ऋद्धयादिगारवाद्वेति 'अप्रशस्त' इत्ययमप्रशस्तः प्रणिधिः । तथा धर्मार्थं प्रशस्त इति, मायागारवरहितो धर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् 'प्रशस्त: ' सुन्दर इन्द्रियनोइन्द्रियप्रणिधिर्निर्जराफलत्वादिति गाथार्थः ।। साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह
नि. [ ३०५ ] अट्ठविहं कम्मरयं बंधइ अपसत्थपणिहिमाउत्तो ।
तं चेव खवेइ पुणो पसत्थपणिहीसमाउत्तो ॥
वृ.‘अष्टविधं' ज्ञानावरणीयादिभेदात् कर्मरजो 'बन्धाति' आदत्ते, क इत्याह- 'अप्रशस्तप्रणिधिमायुक्तः' अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह-प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः ॥ संयमाद्यर्थं च प्रणिधिः प्रयोक्तव्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org