________________
१८७
अध्ययन-६, उद्देशकः - नि. २६८] गन्धद्रव्यं' 'पद्मकानि च' कुङ्कुमकेसराणि, चशब्दादभ्यच्चैवंविधं गात्रस्य 'उद्वर्त्तनार्थम्' उद्वर्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः ॥ मू. (२८९) नगिणस्स वावि मुंडस्स, दीहरोमनहसिणो।
मेहुणा उवसंतस्स, किं विभूसाई कारिअं? ॥ वृ.उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यतेशोभायां नास्ति दोषः अलङ्कुतश्चापि चरेद्धर्म'मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्कयाह'नगिणस्स'त्ति सूत्रं, 'नग्रस्य वापि' कुचेलवतोऽप्युपचारनग्रस्य' निरुपचरितस्य नग्रस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य द्रव्यभावाभ्यां 'दीर्घरोमनखवतः' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति।। मैथुनाद् 'उपशान्तस्य' उपरतस्य, किं 'विभूषया' राढया कार्यं ?, न किञ्चिदिति सूत्रार्थः ।। मू. (२९०) विभूसावत्तिअंभिक्खू, कम्मं बंधइ चिक्कणं।
संसारसायरे घोरे, जेणं पडइ दुरुत्तरे॥ वृ.इत्थं प्रयोजनाभावमभिधायापायमाह-'विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं 'भिक्षुः' साधुः कर्म बन्धाति 'चिक्कणं' दारुणं, संसारसागरे 'घोरे' रौद्रे येन कर्मणा पतति 'दुरुत्तारे' अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः॥ मू. (२९१) विभूसावत्तिअंचेअं, बुद्धा मन्नति तारिसं।
सावज्जबहुलं चेअं, नेयं ताईहिं सेविअं॥ वृ.एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह-'विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्ग चित्तमित्यर्थः, 'बुद्धाः' तीर्थकरा ‘मन्यन्ते' जानन्ति तादृशं' रौद्रकर्मबन्धहेतुभूतं विभूषाक्रिया-सदृशं 'सावद्यबहुलं चैतद्' आर्तध्यानानुगतं चेतः, नैतदित्थंभूतं ‘त्रातृभिः' आत्मारामैः साधुभिः ‘सेवितम्' आचरितं, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः । मू. (२९२)खवंति अप्पाणममोहदंसिणो, तवे रया संजमअज्जवे गुणे।
धुणंति पावाइं पुरेकडाई, नवाइं पावाइं न ते करंति॥ वृ. उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरनाह-'खवंति'त्ति सूत्रं, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशष्टा इत्याह- अमोहदर्शिमः' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते-तपसिअनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह'संयमार्जवगुणे' संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता 'धुन्वन्ति' कम्पन्त्यपनयन्ति पापानि 'पुराकतानि' जन्मान्तरोपात्तानि 'नवानि' प्रत्यग्राणि पापानि न 'ते' साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ।। मू. ( २९३)सओवसंता अममा अकिंचणा, सविज्जविज्जानुगया जसंसिणो।
उउप्पसने विमलेव चंदिमा, सिद्धि विमाणाई उति ताइणो॥ तिबेमि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org