SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८६ कलर दशवैकालिक-मूलसूत्रं-६/-/२८३ मू. ( २८३) अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं। कुसीलवड्डणं ठाणं, दूरओ परिवज्जए। वृ. तथा 'अगुत्ति'त्ति सूत्रं, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानम्-उक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः 'परिवर्जयेत्' परित्यजेदिति सूत्रार्थः ।। म.( २८४) तिहमन्नयरागस्स, निसिज्जा जस्स कप्पई। जराए अभिभूअस्स, वाहिअस्स तवस्सिणो । वृ. सूत्रैणैवापवादमाह-'तिण्हि'त्ति सूत्रं, 'त्रयाणां' वक्ष्यमाणलक्षणानाम् 'अन्यतरस्य' एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह-'जरयाऽभिभूतस्य' अत्यन्तवृद्धस्य 'व्याधिमतः' अत्यन्तमशक्तस्य 'तपस्विनो' विकृष्टक्षपकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ॥ मू. ( २८५) वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए। वुकतो होइ आयारो, जढो हवइ संजमो। वृ.उक्तो निषद्यास्थानविधि: तदभिधानोत्पोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह-'वाहिओ व'त्ति सूत्रं, 'व्याधिमान् वा' व्याधिग्रस्तः 'अरोगी वा' रोगविप्रमुक्तो वा 'स्नानम्' अङ्गप्रक्षालनं यस्तु प्रार्थयते' सेवत इत्यर्थः, तेनेत्थंभूतेन व्युत्क्रान्तो भवति 'आचारो' बाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, 'जढः' परित्यक्तो भवति 'संयमः' प्राणिरक्षणादिकः, अप्कायादिविराधनादिति सूत्रार्थः ।। मू. (२८६) संतिमे सुहुमा पाणा, घसासु भिलुगासु । जे अभिक्खू सिणायंतो, विअडेणुप्पलावए॥ वृ.प्रासुकस्नानेन कथं संयमपरित्याग इत्याह-'संतिमे'त्ति सूत्रं, सन्ति एते' प्रत्यक्षोपलभ्यमानस्वरूपाः 'सूक्ष्मा:'श्लक्ष्णाः 'प्राणिनो' द्वीन्द्रियादयः 'घसासु' शुषिरभूमिषु 'भिलुगासु च' तथाविधभूमिराजीषु च, यांस्तु भिक्षुः स्नानजलोज्झनक्रियया 'विकृतेन' प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थः ॥ मू. ( २८७) तम्हा ते न सिणायंति, सीएण उसिणेण वा। . जावज्जीवं वयं घोरं, असिणाणमहिटगा। वृ.निगमयन्नाह-'तम्ह'त्ति सूत्रं, यस्मादेवमुक्तदोषप्रसंगस्तस्मात् 'ते' साधवो न स्रान्ति शीतेन वोष्णोनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त इत्याह-'यावज्जीवम्' आजन्म व्रतं 'घोरं' दुरनुचरमस्नानमाश्रित्य 'अधिष्ठातारः' अस्यैव कर्तार इति सूत्रार्थः॥ मू.( २८८) सिणाणं अदुवा कक्कं, लुद्धं पउमगाणि अ। गायस्सुव्वट्टणढाए, नायरंति कयाइवि॥ वृ.किंच 'सिणाणं'ति सूत्रं, 'नानं' पूर्वोक्तम्, अथवा 'कल्कं ' चन्दनकल्कादि 'लोधं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy