________________
अध्ययनं - ६, उद्देशक :- [नि. २६८ ]
१८५
'एतदर्थं' पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निर्ग्रन्थाः, केत्याह- 'गृहिभाजने' अनन्त - रोदित इति सूत्रार्थः ॥
मू. ( २७८ ) आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥
वृ. उक्तो गृहिभाजनदोष:, तदभिधानाच्चतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह - 'आसंदि'त्ति सूत्रं, आसन्दीपर्यङ्कौं प्रतीतौ तयोरासन्दीपर्यङ्कयोः प्रतीतयाः, मञ्चाशालकयोश्च, मञ्चः-प्रतीतः आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः 'अनाचरितम्' अनासेवितम् 'आर्याणां' साधूनाम् 'आसितुम्' उपवेष्टुं 'स्वप्तुं वा' निद्रातिवाहनं वा कर्तुं, शुषिरदोषादिति सूत्रार्थः ॥ मू. (२७९)
नासंदीपलिअंकेसु, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिट्ठगा ॥
वृ.अत्रैवापवादमाह-'नासंदि' त्ति सूत्रं, न 'आसन्दीपर्यङ्कयोः ' प्रतीतयोः न निषद्यायाम्एकादिकल्परूपायां न पीठके - वेत्रमयादौ 'निर्ग्रन्थाः ' साधवः 'अप्रत्युपेक्ष्य' चक्षुरादिना, निषीदनादि न कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसम्बध्यते, न कुर्वन्तीति । किंविशिष्टा निर्ग्रन्थाः ?, इत्याह-'बुद्धोक्ताधिष्ठातारः ' तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्द्यादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यथानुपपत्तेरिति सूत्रार्थः ॥
मू. (२८० )
गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, एअमट्टं विवज्जिआ ॥
वृ. तत्रेव दोषमाह-'गंभीर' त्ति सूत्रं, गम्भीरम् - अप्रकाशं विजय - आश्रयः अप्रकाशाश्रय 'एते' प्राणिनामासन्द्यादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते चैतदुपवेशनादिना, आसन्दः पर्यङ्कश्च चशब्दान्मञ्चादयश्च एतदर्थं विवर्जिताः साधुभिरिति सूत्रार्थः ॥ मू. (२८१ ) गोअरग्गपविट्ठस्स, निसिज्जा जस्स कप्पइ ।
इमेरिसमणायारं, आवज्जइ अबोहिअं ॥
वृ. उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह'गोअरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु 'एवम्' ईदृशं वक्ष्यमाणलक्षणमनाचारम् 'आपद्यते' प्राप्नोति 'अबोधिकं' मिथ्यात्वफलमिति सूत्रार्थः ॥
मू. ( २८२ )
विवत्ती बंभचेरस्स, पाणाणं च वहे वहो ।
वणीमगपडिग्घाओ, पडिकोहो अगारिणं ॥
वृ. अनाचारमाह-'विवत्ति' त्ति सूत्रं, विपत्तिर्ब्रह्मचर्यस्य- आज्ञाखण्डनादोषतः साधुसमाचारणस्य प्राणिनां च वधे वधो भवति, तथा सम्बन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, तदाक्षेपणाअदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थ: ॥
Jain Education International
4
For Private & Personal Use Only
www.jainelibrary.org