________________
१८८
दशवैकालिक-मूलसूत्र-६/-/२९३ वृ.किं च -'सदोवसंत'त्ति सूत्रं, 'सदोपशान्ताः' सर्वकालमेव क्रोधारहिताः, सर्वत्राममाममत्वशून्याः 'अकिञ्चना' हिरण्यादिमिथ्यदिद्रव्यभावकिञ्चनविनिर्मुक्ताः, स्वाआत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवल श्रुतरूपा तया स्वविद्या विद्ययानुगतायुक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेषयन्ते-'यशस्विनः' शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ 'प्रसन्ने' परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः “सिद्धि' निर्वृत्तिं तथा सावशेषकर्माणो 'विमानानि' सौधर्मावतंसकादीनि उपयान्ति' सामीप्येन गच्छन्ति त्रातार:' स्वपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववत् ॥
- अध्ययनं समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं दशवकालिक सूत्रे
षष्ठमअध्ययनं सनियुक्तिः सटीकं समाप्तम्
(अध्ययनं - ७-वाक्यशुद्धिः वृ.साम्प्रतं वाक्यशुद्धयाख्यमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य(आचार) इति, अपि स्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च -
__ "सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं।
वोत्तुंपि तस्स व खमं किमंग पुण देसणं काउं? ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाहनि. [२७०] निक्खेवो अ(उ) चउक्को वक्के दव्वं तु भासदव्वाई।
भावे भासासद्दो तस्स य एगट्ठिआ इणमो॥ वृ.व्याख्या-निक्षेपस्तु 'चतुष्को' नामस्थापनाद्रव्यभावलक्षणो 'वाक्ये' वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, 'द्रव्यं तु' द्रव्यवाक्यं पुनर्जशरीरभव्यशरीरव्यतिरिक्तं भाषाद्रव्याणि' भाषकेण गृहीतान्यनुच्चार्यमाणानि, 'भाव' इति भाववाक्यं भाषाशब्द:' भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः। तस्य तु वाक्यस्य एकाथिकानि अमूनि' वक्ष्यमाणलक्षणानीति गाथार्थः ।। नि. [२७१] वकं वयणं च गिरा सरस्सई भारही अ गो वाणी।
भासा पन्नवणी देसणी अ वयजोग जोगे अ॥ व. व्याख्या-वाक्य वचनं च गी: सरस्वती भारती च गौर्वाक भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थः ।। पूर्वोद्दिष्टां द्रव्यादिभाषामाहनि. [२७२] दव्वे तिविहा गहणे अनिसिरणे तह भवे पराधाए।
- भावे दव्वे अ सुए चरित्तमाराहणी चेव॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org