________________
१८०
सेज्जंभव आहेति सूत्रार्थः ॥ मू. (२४६ )
दशवैकालिक - मूलसूत्र - ६/-/ २४५
सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । सवि अप्पणोऽवि देहमि, नायरंति ममाइयं ॥
वृ.आह-वस्त्राद्यभावभाविन्यपि मूर्च्छा कथं वस्त्रादिभावे साधूनां न भविष्यति ?, उच्यते, सम्यग्बोधेन तद्वीजभूताबोधोपघाताद्, आह च- 'सव्वत्थ' त्ति सूत्रं, 'सर्वत्र' उचिते क्षेत्रे काले च 'उपधिना' आगमोक्तेन वस्त्रादिना सहापि 'बुद्धा' यथावद्विदितवस्तुतत्त्वाः साधवः 'संरक्षणपरिग्रह' इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन ?, ते हि भगवन्तः 'अप्यात्मनोऽपि देह' इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति 'ममत्वम्' आत्मीयाभिधानं, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ॥
मू. ( २४७ ) अहो निच्चं तवो कम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ॥
वृ. उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह- 'अहो' त्ति सूत्रं, 'अहो नित्यं तप:कर्मे'ति अहो-विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तप:कर्मतपोऽनुष्ठानं ‘सर्वबुद्धैः' सर्वतीर्थकरै: 'वर्णितं' देशितं, किंविशिष्टमित्याह - 'याव - ल्लज्जासमा वृत्ति: ' लज्जा - संयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्ति:- देहपालना 'एकभक्तं च भोजनम्' एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकम् - एकसंख्यानुगतं, भावत एकं कर्मबन्धाभावादद्वितीयं तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः ॥
मू. ( २४८ )
संतिमे सुहुमा पाणा, तसा अदुवथावरा । जाई राओ अपासंतो, कहमेसणिअं चरे ? ॥
-
वृ. रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयतां दर्शयति- 'संतिमे' त्ति सूत्रं, सन्त्येतेप्रत्यक्षोपलभ्यमानस्वरूपा: सूक्ष्माः 'प्राणिनो' जीवाः सा द्वीन्द्रियादयः अथवा स्थावरा:पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथम् 'एषणीयं' सत्त्वानुपरोधेन चरिष्यति भोक्ष्यते च ?, असंभव एव रात्रावेषणीयचरणस्येति सूत्रार्थः ॥
मू. (२४९ )
उदउल्लं बीअसंसत्तं, पाणा निवडिया महिं ।
Jain Education International
-
दिआ ताइं विवज्जिजा, राओ तत्थ कहं चरे ? ॥
वृ. एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाह - 'उदउल्लं' ति सूत्रं, उदकार्द्र पूर्ववद्रेकग्रहणे तज्जातिग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तं' बीजै: संसक्तं- मिश्रम्, ओदनादीति गम्यते, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा 'प्राणिनः ' संपातिमप्रभृत्यो निपतिता 'मह्यां' पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव ?, सत्यं, किंतु परलोक भीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरति संयमानुपरोधेन ?, असंभव एव शुद्धचरणस्येति सूत्रार्थः ॥ एअं च दोसं दट्ठूणं, नायपुत्त्रेण भासिअं ।
मू. ( २५० )
For Private & Personal Use Only
www.jainelibrary.org