SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-६, उद्देशकः - (नि. २६८] १७९ तम्हा मेहुणसंसग्गं, निग्गंथा वज्जयंति नं।। वृ.एतदेव निगमयति-'मूलं'ति सूत्रं, 'मूलं' बीजमेतद् 'अधर्मस्य' पापस्येति पारलौकिकोऽपाय: 'महादोषसमुच्छ्रयं' महतां दोषाणां-चौर्याप्रवृत्त्यादीनां समुच्छ्रयं-संघातवदित्यैहिकोऽपायः, यस्मादेवं तस्मात् 'मैथुनसंसर्ग' मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, नमिति वाक्यालङ्कार इति सूत्रार्थः ॥ मू.(२४२) बिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणि । न ते संनिहिमिच्छंति, नायपुत्तवओरया॥ वृ. प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह-'बिड'त्ति सूत्रं, 'बिडं' गोमूत्रादिपक्वं 'उद्भेद्यं' सामुद्रादि यद्वा 'बिडं' प्रासुकम् 'उद्भेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं प्रतीतं, सर्पिघृतं, फाणितं द्रवगड:, एतल्लवणाद्येवंप्रकारमन्यच्च न ते साधवः 'संनिधि कुर्वन्ति' पर्युषितं स्थापयन्ति, 'ज्ञातपत्रवचोरताः' भगवद्वर्धमानवचसि निःस्ङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः ।। मू. ( २४३) लोहस्सेस अनुप्फासे, मन्ने अन्नयरामवि। जे सिआ सन्निहिं कामे, गिही पव्वइए न से। वृ. संनिधिदोषमाह-'लोभस्स'त्ति सूत्रं, 'लोभस्य' चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'एसोऽनुप्फास'त्ति एषोऽनुस्पर्शः-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि' स्तोकामपि 'यः स्यात्' यः कदाचित्संनिधि 'कामयते' सेवते 'गृही' गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः॥ मू. ( २४४) जंपि वत्थं व पायं वा, कंबलं पायपुंछणं। तंपि संजमलज्जट्ठा, धारंति परिहरंति अ॥ वृ. आह-यद्येवं वस्त्रादिधारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपि'त्ति सूत्रं, यदप्यागमोक्तं 'वस्त्रं वा' चोलपट्टकादि 'पात्रं वा' अलाबुकादि 'कम्बलं' वर्षाकल्पादि, 'पादपुंछनं' रजोहरणं, तदपि 'संयमलज्जार्थ'मिति संयमार्थं पात्रादि, तद्वयतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्र, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन 'परिहरन्ति च परिभुञ्जते च' मूर्छारहिता इति सूत्रार्थः ।। .. मू. ( २४५) नसो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा॥ वृ.यतश्चैवमतः-'न सो'त्ति सूत्रं, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन?, 'ज्ञातपुत्रेण' ज्ञात-उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन 'त्रात्रा' स्वपरपरित्राणसमर्थेन, अपि तु 'मूर्छा' असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुत्वाद्, अर्थतस्तीर्थकरेण, ततोऽवधार्य 'इति' एवमुक्तो 'महर्षिणा' गणधरेण, सूत्रे Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy