SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ दशवैकालिक-मूलसूत्र-६/-/२३६ मू. (२३६) अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया। हिंसगं न मुसं बूआ, नोवि अन्नं वयावए। वृ. उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह-'अप्पणट्ठ'त्ति सूत्रं, आत्मर्थम्' आत्मनिमित्तमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि ‘परार्थं वा' परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, 'एकग्रहणे तज्जातीयग्रहण'मिति मानाद्वा अबहुश्रुत एवाहं बहुश्रुत इत्यादि मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि लोभाच्छोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि, यदिवा 'भवात्' किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान कृतमित्यादि, एवं हास्यादिष्वपि वाच्यम्, अत एवाह-"हिंसक' परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं नाप्यन्यं वादयेत्, ‘एकग्रहणे तज्जातीयग्रहणात्' ब्रुवतोऽप्यन्यान समनुजानीयादिति सूत्रार्थः ।। मू. (२३७) मुसावाओ उलोगम्मि, सव्वसाहूहिं गरिहिओ। अविस्साओ अ भूआणं, तम्हा मोसं विवज्जए॥ वृ.किमित्येतदेवमित्याह-'मुसाविउ'त्ति सूत्रं, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिः 'गर्हितो' निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञातापालनात्, ‘अविश्वासश्च' अविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थः ।। मू.(२३८) चित्तमंतमचित्तं वा, अप्पं वा जइवा बहुं। दंतसोहणमित्तंपि, उग्गहंसि अजाइया । वृ. उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह-'चित्तमंत'त्ति सूत्रं, 'चित्तवद्' द्विपदादि वा 'अचित्तवद्वा' हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च, यदिवा बहु मूल्यप्रमाणाभ्यामेव, किंबहुना?-'दन्तशोधनमात्रमपि' तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति सूत्रार्थः । .मू. (२३९) तं अप्पाणा न गिण्हति नोऽवि गिण्हावए परं। अन्नं वा गिण्हमाणपि, नानुजाणंति संजया। वृ.एतदेवाह-'तं'त्ति सूत्रं, 'तत्' चित्तवदादिआत्मना न गृह्णन्ति विरतत्वात्, नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव 'नानुजानन्ति' नानुमन्यन्ते संयता इति सूत्रार्थः ॥ मू. ( २४०) अबंभचरिअं घोरं, पमायं दुरहिडिअं। नायरंति मुनी लोए, भेआययणवज्जिओ। वृ.उक्तस्तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह-'अबंभ'त्ति सूत्रं, 'अब्रह्मचर्य' प्रतीतं 'घोरं' रौद्रं रौद्रानुष्ठानहेतुत्वात्, 'प्रमादं' प्रमादवत् सर्वप्रमादमूलत्वात् 'दुराश्रयं' दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमतो 'नाचरन्ति' नासेवन्ते मुनयो 'लोके' मनुष्यलोके, किंविशष्टा इत्याह-'भेदायतनवर्जिनो' भेदः-चारित्रभेदस्तदायनतनं-तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिनः-चारित्रातिचारभीरव इति सूत्रार्थः॥ मू. ( २४१) मूलमेयमहम्मस्स, महादोससमुस्सयं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy