________________
१७७
अध्ययनं-६, उद्देशकः -- [नि. २६६]
अमुमेवार्थ सूत्रस्तर्शनियुक्ता स्पष्टयतिनि. [२६७] अट्ठारस ठाणाइं आयारकहाए जाई भणियाई। ..
तेसिं अनतरागं सेवंतु न होइ सो समणो॥ वृ. अष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैः तेषामन्यतरस्थानक सेवमानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः ।। कानि पुनस्तानि स्थानानीत्याह - नि. [२६८] वयछक्कं कायछक्कं, अकप्पो गिहिभायणं ।
पलियंकनिसेज्जा य, सिणाणं सोहवज्जणं ।। वृ. व्रतषट्कं' प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि कायषट्कंपृथिव्यादयः षड्जीवनिकायाः 'अकल्पः' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजनं' गृहस्थसंबन्धि कांस्यभाजनादि प्रतीतं 'पर्यत' शयनविशेषः प्रतीतः । 'निषद्या च' गृहे एकानेकरूपा 'स्नानं' देशसर्वभेदभिन्नं 'शोभावर्जनं' विभूषापरित्यागः, वर्जनमिति च प्रत्येकभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ।। मू. ( २३३) तत्थिमं पढमं ठाणं, महावीरेण देसि।
अहिंसा निउणी दिट्ठा, सव्वभूषसु संजमो॥ वृ.व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्याते, अस्य चायमभिसंबन्धःगुणा अष्टादशसु स्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह-'तत्थिमं ति सूत्र। 'तत्र' अष्टादशविधे स्थानगणे व्रतषट्के वा अनासेवनाद्वारेण 'इदं' वक्ष्यमाणलक्षणं प्रथम स्थानं 'महावीरेण' भगवता अपश्चिमतीर्थकरेण 'देशितं' कथितं यदुताहिसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह-'निपुणा' आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु 'दृष्टा' साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीययमेव निपुणेत्यत आह-यतोऽस्यामेव महावीरदेशितायां 'सर्वभूतेषु' सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः॥ मू. (२३४) जावंति लोए पाणा, तसा अदुव थावरा।
ते जाणमजाणं वा, न हणे नोवि धायए॥ वृ. एतदेव स्पष्टयन्नाह-'जावंति' सूत्रं, यतो हि भागवत्याज्ञा यावन्तः केचन लोके प्राणिनस्त्रसा-द्वीन्द्रियादयः अथवा स्थावरा:-पृथिव्यादयः तान् जानन् रागाद्यभिभूतो व्यापादनबुद्धया अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः, 'एकग्रहणे तज्जातीयग्रहणाद्' घ्नतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः॥ मू. ( २३५) सव्वे जीवावि इच्छंति, जीविउंन मरिजिउं।
तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति नं ।। - वृ.अहिंसैव कथं साध्वीत्येतदेवाह-'सव्वे'त्ति सूत्रं, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं घोरं' रौद्रं दुःखहेतुत्वाद् 'निर्ग्रन्थाः' साधवो वर्जयन्ति भावतः । नमिति वाक्यालङ्कार इति सूत्रार्थः॥ 27/12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org