SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ दशवैकालिक - मूलसूत्रं-६/-/२२९ वृ. जिनवचने यथावत्परिणते सति अवस्थोचितविहितानुष्ठानात्-स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचारपालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाच्चार्थः, विश्रम्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः ॥ अधुना निश्चयेनाविरोधमाह नि. [ २६६ ] धम्मसस फलं मोक्खो सासयमउलं सिवं अणाबाहं । तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति ॥ वृ. धर्मस्य निरतिचारस्य फलं 'मोक्षो' निर्वाणं, किंविशिष्टमित्याह- 'शाश्वतं नित्यम् 'अतुलम्' अनन्यतुलं 'शिवं' पवित्रम् 'अनाबाधं' बाधावर्जितमेतदेवार्थः 'तं' धर्मार्थं मोक्षमभिप्रेता:- कायन्त: साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः ॥ एतदेव दृढयन्नाहनि. [२६७] परलोगु मुत्तिमग्गो नत्थि हु मोक्खो त्ति बिंति अविहिन्नू । सो अथ अवितहो जिनमयंमि पवरो न अन्नत्थ ॥ वृ. 'परलोको' जन्मान्तरलक्षणो 'मुक्तिमार्गो' ज्ञानदर्शनचारित्राणि नास्त्येव 'मोक्ष: ' सर्वकर्मक्षय लक्षणः 'इति' एवं ब्रुवते 'अविधिज्ञा' न्यायमार्गाप्रवेदिनः, अत्रोत्तरं - 'स' परलोकादिः अस्त्येव ‘अवितथः' सत्यो 'जिनमते' वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः ॥ मू. ( २३० ) नन्नत्थ एरिसं वृत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥ वृ.काचित्सूत्रस्पर्शनिर्युक्तिः, अधुना सूत्रान्तरावसरः, अस्य चायमभिसंबन्धः - इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह- 'नन्नत्थ' त्ति सूत्रं न‘अन्यत्र' कपिलादिमते ‘'ईदृशम्' उक्तमाचारगोचरं वस्तु यत् 'लोके' प्राणिलोके 'परमदुश्चरम्' अत्यन्तदुतच्छीलश्च यस्तस्य, न मूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः ॥ सखुड्डूगवित्ताणं, वाहिआणं च जे गुणा । मू. ( २३१ ) अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा ॥ वृ. एतदेव संभावयन्नाह-'सखुड्ड' त्ति सूत्रं, सह क्षुल्लकैः- द्रव्यभावबालैर्ये वर्त्तन्ते ते व्यक्ताद्रव्यभाववृद्धास्तेषां सुक्षुल्लकव्यक्तानां, सबालवृद्धानामित्यर्थः, व्याधिमतां चशब्दा-दव्याधिमतां च, सरुजानां नीरुजानां चेति भावः, ये 'गुणा' वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिता: कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् श्रुणेत यथा कर्तव्यास्तथेति सूत्रार्थः ॥ मू. ( २३२ ) दस अट्ठ य ठाणाई, जाई बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ ॥ वृ. ते चारगुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते- 'दस 'त्ति सूत्रं, दशाष्टौ च 'स्थानानि' असंयमस्थानानि वक्ष्यमाणलक्षणानि 'यानि' आश्रित्य 'बालः' अज्ञः 'अपराध्यति' तत्सेवनयाऽपराधमाप्नोति, कथमपराध्यतीत्याह- तत्रान्यतरे स्थाने वर्तमानः प्रमादेन 'निर्ग्रन्थत्वात्' निर्ग्रन्थभावाद् 'भ्रश्यति' निश्चयनयेनापैति बाल इति सूत्रार्थः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy