________________
अध्ययनं-६, उद्देशकः - [नि. २६८]
१८१ सव्वाहारं न भुजंति, निग्गंथा राइभोअणं॥ वृ. उपसंहरनाह-'एअंच'त्ति सूत्रं, 'एतं च' अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा ‘ज्ञातपुत्रेण' भगवता 'भाषितम्' उक्तं 'सर्वाहारं' चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते ‘निर्ग्रन्थाः' साधवो रात्रिभोजनमिति सूत्रार्थः। . मू. ( २५१) पुढविकायं न हिंसंति, मनसा वयसा कम्यसा।
तिविहेणं करणजोएणं, संजया सुसमाहिआ॥ वृ. उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह-'पुढवि'त्ति सूत्रं, पृथ्वीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह'त्रिविधेन करणयोगेन' मनःप्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह-'संयताः' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः । मू. ( २५२) पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए।
तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे। वृ. अत्रैव व्यापादयत्येव, 'तदाश्रितान्' पृथिवीश्रितान् ‘त्रसांश्च विविधान् प्राणिनो' द्वीन्द्रियादीन् चशब्दात्स्थावरांश्चप्कायादीन् 'चाक्षुषांश्चाचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ।। मू. ( २५३) तम्हा एअंविआणित्त, दोसं दुग्गइवडणं ।
पदविकायसमारंभं, जावजीवाइ वज्जए॥ वृ.यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं 'दुर्गतिवर्धनं' संसारवर्धनं पृथिवीकायसमारंभमालेखनादि ‘यावज्जीवं' यावज्जीवमेव वर्जयेदिति। मू. ( २५४) आउकायं न हिंसंति, ममसा वयसा कायसा॥
तिविहेण करणजोएण, संजया सुसमाहिआ॥ मू. ( २५५) आउकायं विहिंसंतो, हिसंई उ तयस्सिए।
तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे । मू. ( २५६) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं।
आउकायसमारंभं जावजीवाइ वज्जए॥ . वृ.उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते'आउ-कार्य'ति सूत्रं, सूत्रत्रयमप्कायाभिलापेन नेयं, ततश्चायमप्युक्त एव॥ मू. ( २५७) जायतेअंन इच्छंति, पावगं जलइत्तए।।
तिक्खमन्नयरंसत्थं, सव्वओऽविदुरासयं॥ वृ. साम्प्रतं नवमस्थानविधिमाह-'जायतेअंति सूत्रं, जाततेजा-अग्निः तं जाततेजसं नेच्छन्ति मनःप्रभृतिभिरपि पापकं' पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह-'सर्वशस्त्रम्, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव सर्वतोऽपि दुराश्रयं' सर्वतोधारत्वेनानाश्रयणीयमिति सूत्रार्थः ॥
मू. (२५८) पाईणं पडिणं वावि, उड़े अणुदिसामवि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org