________________
पीठिका [नि. २३]
" तस्यात्मा संयमो यो हि, सदाचारे रतः सदा । स एव धृत्तिमान् धर्मस्तस्यैव च जिनोदितः ॥"
१५
इति, स चाचार: षड्जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम्, अथवाऽऽत्मसंयमः - तदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आहच' तथा जीवसंयमोऽपि च' भवति चतुर्थेऽध्ययनेऽर्थाधिकार इति, अपिशब्दादात्मसंयमो ऽपि तद्भावभाव्येय वर्त्तते, उक्तं च
"छसु जीवनिकाएसुं, जे बुहे संजए सया । सेव होइ विन्ने, परमत्थेण संजए ॥"
इत्यादि । एवमेव च धर्म्मः, स च देहे स्वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, सच सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च-'भिक्षाविशोधिस्तपः संयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं तस्याः विशोधि:- सायद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपः प्रधान: संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्त्तत इति, उक्तं च-
सेज समक्खा, निरवज्जाहार जे विऊ । धम्मकार्यट्ठिए सम्मं, सुहजोगाण साहए।'
11
इत्यादि । गोचरप्रविष्टेन च सता स्वाचारं पुष्टेन तद्विदापि न महाजनसमक्षं तंत्रेव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च
"गोअरग्गपविट्ठे उन निसिएज्ज कत्थई ।
कहं च न पबंधिज्जा चिट्ठित्ताण व संजए ॥" इत्यादि
आलयगतेनापि तेन गुरुणा (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आहच "वयणविभत्ती" त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनः शब्दः शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकारइति, "सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं ।
वोत्तुं पि तस्स न खमं किमंग पुन देसणं काउं ? ||" इत्यादि
तच्च निरवद्यं वचः आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च- प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन 'भणितम्' उक्तम्, प्रणिधानं नामविशिष्टश्वेतो धर्म इति उक्तं च
-
"पणिहाणरहियस्सेह, निरवज्जंपि भासियं ।
सावज्जतुल्लं वित्रेयं, अज्झत्थेणेह संवुडं ||" इत्यादि
आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह च- 'नवमेऽध्ययनेन विनयोऽर्थाधिकारः' इति, उक्तं च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org