________________
दशवैकालिक-मूलसूत्रं "आयारपणिहाणंमि, से सम्मं वट्टई बुहे।
नाणादीनं विनीएजे, मोक्खट्ठा निव्विगिच्छए।" इत्यादि - एतेषु एव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग् भिक्षुरित्यनेन सम्बन्धेन सभिक्ष्वध्ययनमिति, आहच-'दशमेऽध्ययने समाप्ति नीतमिदं साधुक्रियाभिधायकं शास्त्रम्' एतक्रियासमन्वित एवभिक्षुर्भवत्यत आह-एषभिक्षुरिति गाथाचतुष्टयार्थः॥सएवंगुणयुक्तोऽपि भिक्षुः कदाचित् कर्मपरतत्रत्वात्कर्मणश्च बलत्वा(वत्त्वा)त्सीदेत् ततस्तस्य स्थिरीकरणं कर्त्तव्यमतस्तदर्थाधिकारवदेवचूडाद्वयमित्याहनि.[२४] दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं।
बिइए विवित्तचरिया असीयणगुणाइरेगफला।। वृ. द्वे अध्ययने, किम्?-'चूडा' चूडेव चूडा, तत्र प्रमादवशाद्विषीदति सति साधौ संयमे स्थिरीकरणाम् ‘एकं' प्रथमं स्थिरीकरणफलमित्यर्थः, तथा च तत्रावधावनप्रेक्षिणः साधोः दुष्पजीवित्वनरकपातादयो दाषा वर्ण्यन्त इति । तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते, किंभूता?- 'असीदनगुणातिरेकफला' तत्र 'विविक्तचर्या' एकान्तचर्या-द्रव्यक्षेत्रकालभावेष्वसम्बद्धता, उपलक्षणंचैषाऽनियतचर्यादीनामिति, असीदनगुणातिरेक:फलं यस्याः सा तथाविधेति गाथार्थः॥ नि.[२५] दसकालिअस्स एसोपिंडत्थो वण्णिओसमासेनं।
- एत्तो एक्केकं पुन अज्झयणं कित्तइस्सामि॥ वृ.'दशकालिकस्य' प्राग्निरूपतिशब्दार्थस्य एषः' अनन्तरोदितः 'पिण्डार्थः' सामान्यार्थो 'वर्णितः' प्रतिपादितः 'समासेन' संक्षेपेण, अतः ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्ति-यिष्यामि' प्रतिपादयिष्यामीति, पुनः-शब्दस्य व्यवहित उपन्यास इति गाथार्थः ॥ तत्र प्रथमाध्ययनं द्रुमपुष्पिका, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयः, एषां चतुर्णामप्यनुयोगद्वाराणामध्ययनादावुपन्यासः तथेत्थं चक्रमोपन्यासे प्रयोजनमावश्यकविशेषविवरणादवसेयं स्वरूपंचप्रायश इति। प्रकृताध्ययनस्य चशास्त्रीयोपक्रमे आनुपूर्व्यादिभेदेषु स्ववृद्धयाऽवतार: कार्यः, अर्थाधिकारश्च वक्तव्यः, तथा चाह नियुक्तिकार:
(अध्ययनं-१ दुमपुष्पिका नि.[२६] पढमज्झयणंद्रुमपुस्फियंति चत्तारितस्स दाराई।
... वण्णेउवकाई धम्मपसंसाइ अहिगारो॥ वृ.प्रथमाध्ययनं द्रुमपुष्पिकेति, अस्य नामनिष्पन्ननिक्षेपावसरएवशब्दार्थंवक्ष्यामः, चत्वारि तस्य 'द्वाराणि' अनुयोगद्वाराणि, किम् ?-वर्णयित्वोपक्रमादीनीति, किम् ? - धर्मप्रशंसयाऽधिकारो वाच्य इति गाथार्थः। तथा निक्षेपः,सचत्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघ:- सामान्यं श्रुताभिधानम्, तथा चाहनियुक्तिकार:नि.[२७] ओहो जं सामानं सुआभिहाणं चउव्विहंतंच।
अज्झयणं अज्झीणं आय ज्झवणा य पत्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org