________________
१४
दशवैकालिक - मूलसूत्रं
'अवशेषाणि' प्रथमद्वितीयादीनि निर्व्यूढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्वितीयोऽपि चादेशः ‘आदेशो' विध्यन्तरं 'गणिपिटकाद्' आचार्यसर्वस्वाद् 'द्वादशाङ्गाद्' आचारदिलक्षणात् 'इदं' दशकालिकं, किलेति पूर्ववत्, निर्व्यूढमिति च, किमर्थम् ? - 'मनकस्य' उक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः ॥
एवं यत इति व्याख्यातम्, अधुना यावन्ती - त्येतत्प्रतिपाद्यते -
नि. [१९] दुमपुप्फियाइया खलु दस अज्झयणा समिक्खुयं जाव। अहिगारेवि य एत्तो वोच्छं पत्तेयमेक्वेक्के ॥
वृ. तत्र द्रुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि 'सभिक्खुयं जाय'त्ति सभिक्ष्वध्ययनं यावत्, खलुशब्दो विशेषार्थः, किं विशिनष्टि ? तदन्ये द्वे चूडे, यावन्तीति व्याख्यातं । यथा चेत्येतत् पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुः सम्बन्धकत्वेनेदं गाथादलमाह-अधिकारानपि चातो वक्ष्ये प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्योऽनुवर्तते सोऽधिकार इति गाथार्थः ॥
नि. [२०]
नि. [२१]
तइए आयारकहाउ खुड्डिया आयसंजमोवाओ। तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झयणे ॥ नि. [२२] भिक्खविसोही तवसंजमस्स गुणकारिया उपंचमए । छट्ठे आयारकहा महई जोग्गा महयणस्स ॥
पढमे धम्मसंसासो य इहेव जिनसासनम्मित्ति । बिइए धिइए सक्का काउं जे एस धम्मोत्ति ॥
नि. [२३] वयणविभत्ति पुन सत्तमम्मि पणिहाणमट्ठमे भणियं । नवमे विनओ दसमे समानियं एस भिक्खुत्ति ।।
-
वृ. प्रथमाध्ययने कोऽर्थाधिकारइत्यत आह-'धर्मप्रशंसा' दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्य प्रशंसा-स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, तथाऽन्यैरप्युक्तम्'धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः ।
44
धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥"
इत्यादि । स चात्रैव - जिनशासनेधर्मो नान्यत्र, इहैव निरवद्यवृत्तिसद्भावाद्, एतच्चोत्तरत्र न्यक्षेण वक्ष्यामः । धर्माभ्युपगमे च सत्यपिमा भूदभिनवप्रव्रजितस्याधृतेः सम्मोह इत्यतस्तन्निराकरणार्थधिकारवदेव द्वितीयाध्ययनम्, आहच-द्वितीयेऽध्ययनेऽयमर्थाधिकारः- धृत्या हेतुभूतया शक्यते कर्त्तुम्, 'जे' इति पूरणार्थो निपातः 'एष' जैनो धर्म इति उक्तं च
"जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा ।
जे अधितिमंत पुरिसा तवोवि खलु दुल्लहो तेसिं ॥"
सा पुनर्धृतिराचारे कार्या न त्वनाचारे इत्यस्तदर्थाधिारवदेवं तृतीयाध्ययनम्, आह चतृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह-आचारगोचरा कथा आचारकथा, सा चेहैवानुविस्तरभेदात्, य(अ)त आह-‘क्षुल्लिका' लघ्वी, साच 'आत्मसंयमोपायः' संयमनं संयमः आत्मनः संयम आत्मसंयमस्तदुपायः उक्तं च
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org