________________
अध्ययनं - ५, उद्देशकः - २. [ नि. २४५ ]
१६९
सन्मानः, स चैवंभूतः ‘बहु' अतिप्रचुरं प्रधानसंक्लेशयागात् 'प्रसूते' निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् 'मायाशल्यं च' भावशल्यं च करोतीति सूत्रार्थः ॥ सुरं वा मेरगं वावि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥
मू. (२११ )
वृ. प्रतिषेधान्तरमाह - 'सुरं व 'त्ति सूत्रं - 'सुरां वा' पिष्टादिनिष्पन्नां, 'मेरकं वापि' प्रसन्नाख्यां, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा 'माद्यं रसं' सीध्वादिरूपं 'ससाक्षिकं' सदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेद्मिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदित्याह - यशः संरक्षन्नात्मनः, यशः शब्देन संयमो ऽभिधीयते, अन्ये तु ग्लानापवादविषयमेतत्सूत्रं अल्पसागारिकविधानेन व्याचक्षत इति सूत्रार्थः ॥
मू. (२१२ )
पियए एगओ तेनो, न मे कोइ विआणइ । तस्स पस्सइ दोसाई, निअडिं च सुणेह मे ॥
वृ. अत्रैव दोषमाह - 'पियए'त्ति सूत्रं, पिबति 'एको' धर्मसहायविप्रमुक्तोऽल्पसागारिकस्थितो वा 'स्तेन: ' चौराऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च 'निकृतिं च' मायारूपां शृणुत ममेति सूत्रार्थः ॥
मू. (२१३ ) वड्ढई सुंडिआ तस्स, मायामोसं च भिक्खुणो । अयसो अ अनिव्वाणं, सययं च असाहुआ ॥
वृ. 'वड्ढइ'त्ति सूत्रं, वर्धते 'शौण्डिका' तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भावः प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतु:, अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः ॥
मू. ( २१४ ) निच्चुव्विग्गो जहा तेनो, अत्तकम्मेहिं दुम्मई । तारसो मरणंतेवि, न आराहेइ संवरं ॥
वृ. किंच- 'निच्चुव्विग्गो' त्ति सूत्रं, स इत्थंभूतो 'नित्योद्विग्नः ' सदाऽप्रशान्तो यथा 'स्तेन: ' चौर: ‘आत्मकर्मभिः' स्वदुश्चरितैः दुर्मतिः- दुष्टबुद्धिः 'तादृश: ' क्लिष्टसत्त्वो 'मरणान्तेऽपि ' चरमकालेऽपि नाराधयति 'संवरं' चारित्रं, सदैवाकुशलबुद्धया तद्बीजाभावादिति सूत्रार्थः ॥
मू. (२१५) आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्थावि न गरिहंति, जेन जाणंति तारिसं ।
वृ. तथा - 'आयरिए 'त्ति सूत्रं, आचार्यान्नाराधयति, अशुद्धभावत्वात्- - श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं 'गर्हन्ते' कुत्सन्ति, किमिति ?येन जानन्ति 'तादृशं' दुष्टशीलमिति सूत्रार्थः ॥
मू. (२१६ )
एवं तु अगुणप्पेही, गुणाणं च विवज्जए ।
तारिस मरणंतेऽवि, न आराहेइ संवरं ॥
वृ. 'एवं तु 'त्ति सूत्रं, 'एवं तु' उक्तेन प्रकारेण 'अगुणप्रेक्षी' अगुणान् प्रमादादीन् प्रेक्षते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org