________________
१७०
दशवैकालिक-मूलसूत्रं-५/२/२१६ तच्छीलश्च य इत्यर्थः, तथा 'गुणानां च' अप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण 'विवर्जकः' त्यागी 'तादृशः' क्लिष्टचित्तो मरणान्तेऽपि नाराधयति 'संवरं' चारित्रमिति। मू. ( २१७) तवं कुव्वइ मेहावी, पणीअं वज्जए रसं ।
मज्जप्पमायविरओ, तवस्सी अइउक्कसो॥ वृ.यतश्चैवमत एतद्दोषपरिहारेण 'तवं'ति सूत्रं, तपः करोति मेधावी' मर्यादावर्ती प्रणीतं' स्निग्धं वर्जयति 'रसं' धृतादिकं, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपस्वी' साधुः ‘अत्युत्कर्षः' अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥ मू. (२१८) तस्स पस्सह कल्लाणं, अनेगसाहुपूइथे।
___ विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥ वृ. तस्स'त्ति सूत्रं, 'तस्य' इत्थंशृतस्य पश्यत कल्याणं' गुणसंपद्रूपं संयम, किविशष्टमित्याह-अनेकसाधुपूजितं, पूजितमिति-सेवितमाचरितं, 'विपुलं' विस्तीर्णं विपुलमोक्षावहत्वात्, ‘अर्थसंयुक्तं' तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत 'मे' ममेति सूत्रार्थः ।। मू. ( २१९) एवं तु सगुणप्पेही, आगुणाणं च विवज्जए।
तारिसो मरणंतेऽवि, आराहेइ संवरं। वृ. एवं तु' उक्तेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी' गुणान्अप्रमादादीन् प्रेक्षते तत्छीलश्च य इत्यर्थः, तथा 'अगुणानां च' प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्वा 'विवर्जक:' त्यागी 'तादृशः' शुद्धवृत्तो 'मरणान्तेऽपि' चरमकालेऽप्याराधयति संवरं' चारित्रं, सदैव कुशलबुद्धया तद्बीजपोषणादिति सूत्रार्थः ।। मू. ( २२०) आयरिए आराहेइ, समणे आवि तारिसे।
गिहत्थावि न पूयंति, जेण जाणंति तारिसं॥ वृ. तथा 'आयरिए'त्ति सूत्रं, आचार्यानाराधयति, शुद्धभावत्वात्, श्रमणांश्चपि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति, किमिति?, येन जानन्ति 'तादृशं' शुद्धवृत्तमिति सूत्रार्थः ।। मू. ( २२१) तवतेने वयतेने, रूवतेने अजे नरे।।
. आयारभावतेने अ, कुव्वई देवकिविसं॥ वृ. स्तेनाधीकार एवेदमाह-'तव'त्ति सूत्रं, तपस्तेनो वाक्स्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्विषं करोति-किल्बिषिकं कर्म निर्वर्त्तयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम्, अथवा वक्ति-साधव एव क्षपकाः तृष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्य-रूप: एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org