SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ मू. (२०५ ) जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्त्रेसमाणस्स, सामन्नमनुचिट्ठइ ॥ वृ. तथा - 'जे न वंदि'त्ति सूत्रं, यो न वन्दते कश्चिगृहस्थादिः न तस्मै कुप्यैत् तथा वन्दितः केनचिन्नृपादिना न समृत्कर्षेत्। ‘एवम्' उक्तेन प्रकारेण 'अन्वेषमाणस्य' भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः ॥ मू. (२०६ ) सिआ एगइओ लद्धुं, लोभेन विनिगूहइ । मामेयं दाइयं संतं, दठ्ठणं सयमायए ॥ वृ.स्वपक्षस्तेयप्रतिषेधमाह- 'सिअ'त्ति सूत्रं, 'स्यात्' कदाचिद् 'एकः ' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं, 'लोभेन' अभिष्वङ्गेण 'विनिगूहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह- मा मम 'इदं' भोजनजातं दर्शितं सदृष्टवाऽऽचार्यादिः “स्वयमादद्याद्' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥ मू. (२०७ ) अत्तट्ठा गुरुओ लुद्धो, बहु पावं पकुव्वइ । दुत्तोसओ असो होइ, निव्वाणं च न गच्छइ । वृ. अस्य दोषमाह-'अत्तट्ठ'त्ति सूत्रं, आत्मार्थ एव जघन्यो- गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुब्धः सन् क्षुद्रभोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह - 'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न गच्छति' इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥ मू. (२०८ ) सिआ एगइओ लद्धुं विविहं पानभोअणं । दशवैकालिक - मूलसूत्रं - ५/२/२०५ भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ " वृ. एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते- 'सिअ 'त्ति सूत्रं स्यादेको लब्ध्वेति पूर्ववत्, 'विविधम्' अनेकप्रकारं पानभोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रकं' घृतपूर्णादि भुक्त्वा 'विवर्णं' विगतवर्णमाम्लखलादि 'विरसं' विगतरसंशीतौदनादि 'आहरेद्' आनयेदिति सूत्रार्थः ॥ मू. (२०९) जाणंतु ता इमे समणा, आययट्ठी अयं मुनी । संतुट्ठो सेव पंत, सूहवित्ती सुतोसओ ॥ वृ. स किमर्थमेवं कुर्यादित्यत आह-'जाणंतु' त्ति सूत्रं, जानन्तु तावन्मां शेषसाधवो यथा 'आयतार्थी' मोक्षार्थी अयं 'मुनिः' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं 'रूक्षवृत्तिः' संयमवृत्तिः' 'संतोष्य: ' येन केनचित्तोषं नीयत इति सूत्रार्थः ॥ मू. ( २१० ) पूअणट्ठा जसोकामी, मानसम्मानकामए । Jain Education International - बहु पसवई पावं, मायासल्लं च कुव्वइ ॥ वृ. एतदपि किमर्थमेवं कुर्यात्तत्राह - 'पूअणट्ठ' त्ति सूत्रं, 'पूजार्थम् ' एवं कुर्वतः स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानः- वस्त्रपात्रादिलाभनिमित्तः For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy