________________
अध्ययनं-५, उद्देशकः - २. नि. २४५]
१६७ सपत्रजालकं 'मूलवर्तिकां' मूलकन्दचक्कलिम् ‘आमाम्' अपक्कामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्ताम्, अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं, मनसापि न प्रार्थयेदिति सूत्रार्थः ।। मू. (१९९) तहेव फलमंथूणि, बीअमंथूणि जाणिआ।
बिहेलगं पियालं च, आमगं परिवज्जए। वृ. 'तहेव'त्ति सुत्रं, तथैव ‘फलमन्थून्' बदरचूर्णान्, बीजमन्थून्' यवादिचूर्णान् ज्ञात्वा प्रवचनतो 'बीभीतकं' बिभीतकफलं "प्रियालं वा' प्रियालफलं च 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥ मू.( २००) समुआणं चरे भिक्खू, कुलमुच्चावयं सया।
नीयं कुलमइक्कम, ऊसढं नाभिधारए॥ वृ. विधिमाह-'समुआणं'ति सूत्रं, समुदानं भावभैक्ष्यमाश्रित्य चरेभिक्षुः, केत्याह-- कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवाक्षया प्रधानमप्रधानं च, यथापरिपाट्यव चरेत् 'सदा' सर्वकालं. नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थम् ‘उत्सृतम्' ऋद्धिमत्कुलं 'नाभिधारयेत्' न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति सूत्रार्थः॥ मू. ( २०१) अदीनो वित्तिमेसिज्जा, न विसीइज्ज पंडिए।
अमुच्छिओ भोअणंमि, मायण्णे एसनारए। वृ. किंच-'अदीन'त्ति सूत्रं, 'अदीनो' द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः 'वृत्ति' वर्तनम् 'एषयेद्' गवेषयेत्, 'न विपीदेद्' अलाभे सति विषादं न कुर्यात् 'पण्डितः' साधुः 'अमूच्छितः' अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति एषणारतः' उद्गमोत्पादनैषणापक्षपाती। मू. ( २०२) बहुं परघरे अत्थि, विविहं खाइमसाइमं।
न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ।। वृ. एवं च भावयेत्- 'बहु'ति सूत्रं, 'बहु' प्रमाणतः प्रभूतं 'परगृहे' असंयतादिगृहेऽस्ति 'विविधन्' अनेकप्रकारं खाद्यं स्वाद्यम्, एतच्चाशनाधुपलक्षणं, 'न तत्र पण्डितः कुप्येत्' सदपि न ददानीति न रोपं कुर्यात्, किंतु-'इच्छया दद्यात् परो न वे'ति इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेद्, सामायिकबाधनादिति सूत्रार्थः ।। मू. (२०३) सयनासनवत्थं वा, भत्तं पानं व संजए।
अदितस्स न कुप्पिज्जा, पच्चक्खेवि अ दीसओ ॥ वृ. एतदेव विशेषेणाह-'सयण'त्ति सूत्रं, शयनासनवस्त्र चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः।। मू. ( २०४) इथिअं पुरिसं वावि, डहरं वा महलगं।
वंदमाणं न जाइज्जाअ, नो अनं फरुसंवए। वृ. 'इत्थिअंति सूत्रं, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथविधं नपुंसकं वा, ‘डहरं' तरुणं 'महल्लकं वा' वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादि पाठान्तरं वा-वन्दमानो न याचेत लल्लिव्याकरणेन। शेष पूर्ववदिति सूत्रार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org