SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ दशवकालिक-मूलसूत्रं-५/२/१९१ अन्नं वा पुप्फसच्चितं, तं च संमद्दिआ दए। मू.(१९२) तं भवे भत्तपानं तु, संजयाण अकप्पिअं। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। वृ.एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्यम्। आह-एतत्पूर्वमप्युक्तमेव-'संमद्दमाणी पाणाणि हरिआणि अ' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषभिधानाददोषः।। मू.(१९३) सालुअंवा विरालिअं, कुमुअं उप्पलनालिअं। मुणालिअंसासवनालिअं, उच्छुखंडं अनिव्वुडं। वृ. तथा 'सालुअं'ति सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनालौ प्रतीतौ, तथा 'मृणालिकां' पद्मिनीकन्दोत्थां, 'सर्षपनालिकां' सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिर्वृत' सचित्तम्। एतच्चानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ।। मू.(१९४) . तरुणगं वा पवालं, रुक्खस्स तणगस्स वा। अन्नस्स वावि हरिअस्स, आमगं परिवज्जए। वृ.किंच-'तरुणयंति सूत्रं, तरुणं वा 'प्रवालं' पल्लवं 'वृक्षस्य' चिञ्चिणिकादेः 'तृणस्य वा' मधुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादेः 'आमम्' अपरिणतं परिवर्जयेदिति। मू. (१९५) तरुणिअं वा छिवाडि, आमिअं भज्जिअं सई। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। वृ.तथा-'तरुणिअंति सूत्रं, 'तरुणां वा' असंजातां 'छिवाडिमिति मुगादिफलिम् 'आमाम्' असिद्धां सचेतना, तथा भर्जितां 'सकृद्' एकवारं, ददती प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ।। मू.(१९६) तहा कोलमणुस्सिन्न, वेलुअंकासवनालि। तिलपप्पडगं नीम, आमगं परिवज्जए॥ वृ.'तहा कोलं'ति सूत्रं, तथा 'कोलं' बदरम् 'अस्विनं' वह्नयुदकयोगेनानापादितविकारान्तरं, 'वेणुकं' वंशकरिल्लं 'कासवनालिअं' श्रीपर्णीफलम्, अस्विन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पटें' पिष्टतिलमयम् 'नीमं' नीमफलमामं परिवर्जयेदिति सूत्रार्थः । मू.(१९७) तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं। तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए। वृ.तहेव'त्ति सूत्रं, तथैव तान्दुल पिष्टं, लोट्टमित्यर्थः, विकटं वा-शुद्धोदकं तथा तप्तनिवृतं कथितं सत् शीतीभूतम्, तप्तानिवृतं वा-अप्रवृत्तत्रिदण्डं, तिलपिष्टं-तिललोट्टं, पूतिपिण्याकं' सर्षपस्वलमाम परिवर्जयेदिति सूत्रार्थः ।। मू.(१९८) कविट्ठ माउलिंगं च, मूलगं मूलगत्तिअं। आमं असत्थपरिणयं, मणसावि न पत्थए। वृ. 'कविटुं'ति सूत्रं, 'कपित्थं' कपित्थफलं, 'मातुलिङ्गं च' बीजपूरकं, 'मूलकं' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy