________________
अध्ययनं - ५, उद्देशक :- २. [नि. २४५ ]
मू. ( १८४ )
१६५
अग्गलं फलिहं दारं, कवाडं वावि संजए । अवलंबिआ न चिट्टिज्जा, गोअरग्गगओ मुनी ॥
वृ. उक्ता क्षेत्रयतना, द्रव्ययतनामाह- 'अग्गलं 'ति सूत्रं, 'अर्गलं' गोपुरकपाटादिसंबन्धिनं 'परिघं ' नगरद्वारादिसंबन्धिनं 'द्वारं' शाखामयं 'कपाटं' द्वारयन्त्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादोषात्, 'गोचराग्रगतो' भिक्षाप्रविष्टः, मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः ॥
मू. (१८५ ) समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पानट्ठाए व संजए ॥
वृ.उक्ता द्रव्ययतना, भावयतनामाह - 'समणं' त्ति सूत्रं, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्राह्मणं' धिग्वर्णं वापि ‘कृपणं वा' पिण्डलोकं 'वनीयकं' पञ्चा (नां वनीपका) नामप्यन्यतमम् ‘उपसंक्रामन्तं' सामीप्येन गच्छन्तं गतं वा भक्तार्थं पानार्थं वा 'संयतः ' साधुरिति सूत्रार्थः ॥ मू. (१८६) तमइक्कमित्तु न पविसे, नवि चिट्टे चक्खुगोअरे ।
एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए ।
वृ.'ते'मिति सूत्रं, 'तं' श्रमणादिम् 'अतिक्रम्य' उल्लङ्घ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे । कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत् संयत इति । मू. (१८७ ) वणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥
वृ. अन्यथैते दोषा इत्याह- 'वणीमगस्स' त्ति सूत्रं, 'वनीपकस्य वा तस्ये' त्येतच्छ्रमणाद्युपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात् - अहो अलोकज्ञतैतेषामिति, लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः ॥
मू. (१८८ )
पडिसेहिए व दिन्ने वा, तओ तम्मि नियतिए ।
उवसंकभिज्ज भत्तट्ठा, पानट्ठाए व संजए |
वृ. तस्मान्नैवं कुर्यात्, किंतु-'पडिसेहिअ 'त्ति सूत्रं, प्रतिषिद्धे वा दत्ते वा 'तत: ' स्थानात् 'तस्मिन् ' वनीपकादौ निवर्त्तिते सति उपसंक्राभेद्भक्तार्थं वापि संयत इति सूत्रार्थः ॥
मू. (१८९ )
उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं ।
अन्नं वा पुप्फसच्चितं, तं च संलुचिआ दए ।
वृ. परपीडाप्रतिषेधाधिकारादिदमाह - 'उप्पलं 'ति सूत्रं, 'उत्पलं' नीलोत्पलादि 'पद्मम्' अरविन्दं वापि 'कुमुदं वा' गर्द्दभकं वा 'मगदन्तिकां' मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद्धा पुष्पं सचित्तं शाल्मलीपुष्पादि तच्च 'संलुञ्चय' अपनीय छित्त्वा दद्यादिति सूत्रार्थः ॥ तं भवे भत्तपानं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥
मू. ( १९० )
वृ. 'तारिसं 'त्ति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥
मू. (१९१ )
उप्पलं परमं वावि, कुमुअं वा मगदंतिअं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org