SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ दशवैकालिक - मूलसूत्र -५/२/१७९ वृ. 'कालेनं 'ति सूत्रं, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन 'निष्क्रामेद्' भिक्षुर्वसतेभिक्षायै, कालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता 'प्रतिक्रामेत्' निवर्तेत । भणिअं च-खेत्तं कालो भायणं तिन्निवि पहुप्पहंति हिंडउत्ति अट्ठ भंगा । 'अकालं च वर्जयित्वा' येन स्वाध्यायादि न संभाव्यते स खल्वकालस्तमपास्य काले कालं समाचारेदिति सर्वयोगोपसंग्रहार्थं निगमनं, भिक्षावेलायां भिक्षां समाचारेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति, उक्त च - 'जोगो जोगो जिनसासणंमी' त्यादि, इति सूत्रार्थः ॥ पू. (१८० ) अकाले चरसी भिक्खू, कालं न पडिलेहसि । अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥ वृ. अकालचरणे दोषमाह-'अकाले 'त्ति सूत्र, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित्त साधुना प्राप्ता भिक्षा नवेत्यभिहितः सन्नेवं ब्रूयात् कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा ?, सतेनोच्यते-अकाले चरसि भिक्षो ! प्रमादात्स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालों नवेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेशं च गर्हसि भगवदाज्ञालोपते दैन्यं प्रतिपद्येति सूत्रार्थः ॥ मू. (१८१ ) सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं । अलाभुत्ति न सोइज्जा, तवुत्ति अहिआसए । वृ. यस्मादयं दोषः संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'सति'त्ति सूत्रं, 'सति' विद्यमाने 'काले' भिक्षासमये चरेद्मिक्षुः, अन्ये तु व्याचक्षते - स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्, 'चरेद्भिक्षुः ' भिक्षार्थं यायात्, कुर्यात् पुरुषकारं, जङ्घाबले सति वीर्याचारं न लङ्घयेत् । तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेद्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारर्थमेवातो न शोचेत्, अपितु तप इत्यधिसहेत, अनशनन्यूदोरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥ मू. ( १८२ ) तहेवुच्चावया पाणा, भत्तट्ठाए समागया । तं उज्जुअं न गच्छिज्जा, जयमेव परक्कमे ॥ वृ. उक्ता कालयतना, अधुना क्षेत्रयतनामाह - 'तहेव'त्ति, तथैव 'उच्चावचा: ' शोभनाशोमनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थं समागता बलिप्राभुतिकादिष्वागता भवन्ति, 'तदृजुकं' तेषामभिमुखं न गच्छेत् तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः ॥ मू. (१८३ ) गोअरग्गपविट्टो अ, न निसीइज्ज कत्थई । कहं च न पबंधिज्जा, चिट्ठित्ता न व संजए ॥ वृ. किं च 'गोअग्ग' त्ति सूत्रं, गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्ट इत्यर्थः 'न निषीदेत्' नोपविशेत् ‘क्वचिद्' गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, 'कथां च' धर्मकथादिरूपां 'न प्रबन्धीयात्' प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाहस्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy