________________
अध्ययनं - ५, उद्देशक :- १. [नि. २४५ ]
१६३
जाहि, नाहं तव निव्विट्टं उदंतं वहामि, णिव्विट्टं अप्पफलं भवति । एरिसो मुधादाई ।
मुधाजीविमी उदाहरणं - एक्को राया धम्मं परिक्खई, को धम्मो ?, जो अनिव्विट्टं भुंजइ त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ बहवे कप्पडियादयो आगया, पुच्छिज्जंति-तुम्हे केण भुंजह ?, अन्नो भाइ- अहं मुहेण भुंजामि, अन्नो- अहं पाएहिं, अन्नो-अहं हत्थेहिं, अन्नो-अहं लोगानुग्गहेण, चेल्लगो भणइ - अहं मुहियाए। रन्ना पुच्छिअंकहं चिअ ?, एगेण कहिअं- अहं कहगो अओ मुहेण, अन्नेन भणिअं - अहं लेहवाहगो अओ पाएहिं, अन्नेन भणिअं-अहं लेहगो अओ हत्थेहिं, भिक्खुणा भणिअं अहं पव्वओअओ लोगाणुग्गण, चेल्लएण भणिअं - अहं संजायसंसाराविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ य । एसो मुहाजीवित्ति सूत्रार्थः ॥ अध्ययनं ५ उद्देशकः - १ समाप्तः
अध्ययनं -५ उद्देशकः- २
मू. ( १७६ )
पडिग्गहं संलिहित्ता नं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ।
वृ. पिण्डैषणायाः प्रथमोद्दशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह- 'पडिग्गहं' ति सूत्रं, 'प्रतिग्रहं' भाजनं 'संलिख्य' प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह- 'लेपमर्यादया' अलेपं संलिह्य 'संयतः ' साधुः दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसाद्युपलक्षणं, 'सर्वं' निरवशेषं 'भुञ्जीत' अश्नीयात् 'नोज्झेत्' नोत्सृजेत् किञ्जिदपि, मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थं वा, अन्यथैवं स्यात्- दुर्गन्धि वा सुगन्धि वा, सर्वं भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति सूत्रार्थः ॥
मू. ( १७७ )
सेज्जा निसीहियाए, समावन्नो अ गोअरे ।
अयावयट्ठा भुच्चा नं जइ तेनं न संथरे ।
वृ.विधिविशेषमाह-'सेज्ज' त्ति सूत्रं, 'शय्यायां' वसतौ 'नैषेधिक्यां' स्वाध्यायभूमौ शय्यैव वाऽसमञ्जसनिषेधान्नैषेधिकि तस्यां समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ आयावदर्थं भुक्त्वा न यावदर्थम्-अपरिसमाप्तमित्यर्थः, नमिति वाक्यालङ्कारे। यदि तेन भुक्तेन 'न संस्तरेत्' न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ॥
मू. (१७८ )
तओ कारणमुप्पन्ने, भत्तपानं गवेसए ।
विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥
वृ. तआ'ति सूत्रं ततः कारणे वेदनादावुत्यन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषयेद्' अन्विष्येत्, अन्यथा सकृद्भुक्तमेव यतीनामिति 'विधिना' पूर्वोक्तेन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः ॥
मू. (१७९) कालेण निक्खमे भिक्खु, कालेन य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org