________________
१६२
दशवैकालिक-मूलसूत्र-५/१/१७२ वृ.भोज्यमधिकृत्य विशेषमाह-'तित्तगंव'त्ति सूत्रं, तिक्तकं वा एलुकवालुङ्कादि, कटुकं वा आर्द्रकतीमनादि, कषयां वल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारंतथाविधं शाकादि लवणोत्कटंवाऽन्यत्, एतत्तिक्तादि लब्धम्' आगमोक्तेन विधिना प्राप्तम् 'अन्यार्थम्' अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थं प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधुघृतमिव 'नो वामाओ हणुआओ दाहिणं हणुअं संचारेज्ज'त्ति सूत्रार्थः ।।। मू. (१७३) अरसं विरसं वावि, सूइअंवा असूइअं।
उल्लं वा जइवा सुकं, मंथुकुम्मासभोअणं॥ ७. किंच-'अरसं'ति सूत्र, अरसम्-असंप्राप्तरसं हिंग्वादिभिरसंस्कृतमित्यर्थः, 'विरसं वापि' विगतरसमतिपुराणौदनादि 'सूचितं' व्यञ्जनादियुक्तम् 'असूचितं वा' तद्रहितं वा, कथयित्वा अकथयित्वा वा दत्तमित्यन्ये, 'आई' प्रचुरव्यञ्जनम्, यदिवा शुष्कं स्तोकव्यञ्जनं वा, किं तदित्याह-'मन्थुकुल्माषभोजनं' मन्थु-बदरचूर्णादि कुल्माषा:-सिद्धमाषाः, यवमाषा इत्यन्ये इति सूत्रार्थः ।। मू. ( १७४) उप्पनं नाइहीलिज्जा, अप्पं वा बहु फासुअं।
मुहालद्धं मुहावीजी, भुंजिज्जा दोसवज्जि। वृ.एतद्भोजनं किमित्याह-'उप्पन्नं'ति सूत्रं, 'उत्पन्नं' विधिना प्राप्तं 'नातिहीलयेत्' सर्वथा न निन्देत्, अल्पमतन्न देहपूरकमिति किमनेन?, बहु वा असारप्रायमिति, वाशब्दस्य व्यवहितः संबन्धः, किंविशष्टं तदित्याह-'प्रासुकं' प्रगतासु निर्जीवमत्यिर्थः, अन्ये तु व्याचक्षते-अल्पं वा, वाशब्दाद्विरसादि वा, वहुप्रासुकं-सरर्ववथा शुद्धं नातिहीलयेदिति, अपि त्वेवं भावयेत्यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति । एवं 'मुधालब्धं' कोण्टलादिव्यतिरेकेण प्राप्तं 'मुधाजीवी' सर्वथा अनिदानजीवी, जात्याद्यनाजीवक इत्यन्ते, भुञ्जीत ‘दोपवर्जितं' संयोजनादिरहितमिति सूत्रार्थः ।। मू.(१७५) दुल्लहा उमुहादाई, मुहाजीवीवि दुलहा।
मुहादाई मुहाजीवी, दोऽवि गच्छंति सुग्गई ।। ति बेमि। वृ. एतद्दुरापमिति दर्शयति-'दुल्लह'त्ति, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वादप्येतौ गच्छतः 'सुगति' सिद्धिगति कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुषप्रत्यागमनपरम्परया । ब्रवीमीति पूर्ववत् । ___ अत्र भागवतोदाहरणम्-जहा एगो परिव्वायगो सो एगं भागवयं उवट्ठिओ, अहं तव गिई वरिसारत्तं करेमि, मम उदंतं वहाहि, तेन भणिओ-जइ मम उदंतं न वहसि, एवं हवउत्ति । सो से भागवओ सेज्जभत्तपानादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरेहिं हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिव्वायगो तलाए ण्हायओ गओ, तेन सो घोडओ दिट्टो, आगंतुं भणइ-मम पाणीयतडे पोत्ती विस्सरिया, गोहो विसज्जिओ, तेन घोडओ दिट्ठो, आगंतुं कहियं, तेन भागवएण नायं, जहा-परिव्वायगेण कहियं । तेन परिव्वायगो भण्णत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org