________________
१५४
दशवैकालिक-मूलसूत्रं-५/१/१२० वृ. किं च - 'दगवारेण'त्ति सूत्रं, 'दकवारेण' उदककुम्भेन 'पिहितं' भाजनस्यं सन्तं स्थगितं, तथा 'नीसाए'त्ति पेषण्या, 'पीठकेन वा' काष्ठापीठादिना, 'लोढेन वापि' शिलापुत्रकेण, तथा 'लेपेन' मृल्लेपनादिना 'श्लेपेण वा' केनचिज्जतुसिक्थादिनेति सूत्रार्थः । मू.(१२१) तं च उभिदिआ दिज्जा, समणट्ठाए व दावए।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥ वृ. 'तं च' त्ति सूत्रं, 'तच्च' स्थगितं लिप्तं वा सत् उद्भिद्य दद्याच्छ्रमणार्थं दायकः, नात्माद्यर्थं, तदित्थंभूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥ मू. (१२२) असनं पानगं वावि, खाइमं साइमं तहा।
जं जाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इमं ।। मू. (१२३) तारि भत्तपानं तु, संजयाण अकप्पि।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। वृ. किं च-'असनं'ति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यम्, 'अशनम्' ओदनादि 'पानकं' च आरनालादि, 'खाद्यं' लडकादि, 'स्वाद्यं हरीनक्यादि, यज्जानीयादामन्त्र-णादिना, शृणुयाद्वा अन्यतः, यथा दानार्थं प्रकृतमिदं, दानार्थं प्रकृतं नाम-साधुवादनिमित्तं यो ददात्यव्यापारपाखण्डिभ्यो देशान्तरोदेरागतो वणिक्प्रभृतिरिति सूत्रार्थः।। मू. (१२४) असनं पानगं वावि, खाइमं साइमं तहा।
जं जाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ वृ.'तारिसं'ति सूत्रं, तादृशं भक्तपानं दानार्थं प्रवृत्तव्यापार संयतानामकलिपकं, यतश्चैवमतो . ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥ मू. (१२५) तं भवे भत्तपानं तु, संजयाण अकप्पि।
दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं॥ वृ.असणं'ति सूत्रम्, एवं पुण्यार्थं, पुण्यार्थं प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति। अत्राह-पुण्यार्थप्रकृतपरित्यागे शिष्यकुलेषु वस्तुतो भिक्षाया अग्रहणमेव, शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसत्त्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, स्वभोग्यातिरिक्तस्य देवस्यैव पुण्यार्थकृतस्य निषेधात्, स्वभृत्यभोगस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, देयस्वैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकादाविव सर्वेभ्य एव प्रदानविकला शिष्टभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच्च तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति॥ मू. (१२६) असनं पानगं वावि, खाइम, साइमं तहा।
जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं । वृ. 'तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org