________________
अध्ययनं-५,उद्देशकः-१. नि. २४५]
१५३ पूर्वोक्ता 'कालमासवती' गर्भाधानानवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्जिन्निषिदेद् निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेद्ददामीति साधुनिमित्तमेवेति सूत्रार्थः ॥ मू.(११६) तं भवे भत्तपानं तु, संजयाण अकप्पि।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥ वृ. 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम, इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकं, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः ॥ मू.(११७) थणगं पिज्जेमाणी, दारगं वा कुमारिअं।
तं निक्खिवित्तु रोअंतं, आहरे पानभोअणं॥ वृ. किं च-'थणगं"ति सूत्रं; स्तनं(न्यं) पाययन्ती, किमित्याह-दारकं वा कुमारिकां, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, तद्दारकादि निक्षिप्य रुदद्भूम्यादौ आहरेत्पानभोजनम्, अत्रायं वृद्धसंप्रदायः गच्छवासी जइ थणजीवी पिअंतो निक्खित्तो तो न गिण्हंति, रोवउ वा मा वा, अह अन्नपि आहारेइ तो जति ज रोवइ तो गिण्हंति, अह रोवइ तो न गिण्हंति, अह अपिअंतो निक्खित्तो थणजीवी रोवइ तओ न गिण्हंति, अह न रोवइ तो गिण्हंति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वा मा वा पिबंतओ(वा) अपिबंतओ वा न गिण्हंति, जाहे अन्नपि आहारेउं आढत्तो भवति ताहे जइ पिबंतओ तो रोवउ वा मा वा न गेण्हंति, अह अपिबंतओ तो जइ रोवइ तो परिहरंति, अरोविए गेण्हंति, सीसो आह-को तत्थ दोसोऽत्थि?, आयरिओ भणइतस्स णिक्खिप्पमाणस्स खरेहिं हत्थेहिं धिप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जारादि वा अवहरेज्ज त्ति सूत्रार्थ : ॥ म.(११८) तं भवे भत्तपानं तु, संजयाण अकप्पि।
दितिअं पडिआइक्खे, न मे कप्पइ तारिसं॥ .. वृ.'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपान त्वनन्तरोदितं संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। मू.(११९) जंभवे भत्तपानं तु, कप्पाकप्पमि संकिअं।
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। वृ. किं बहुनेति, उपदेशसर्वस्वमाह-'जं भवे'त्ति सूत्रं, यद्भवेद्भक्तपानं तु 'कल्पाकल्पयोः' कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः, किम् ?-'शाङ्कितं' न विद्यः किमिदमुद्गमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतं, तदित्थंभूतमसति कल्पनीयनिश्चये ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। मू.(१२०) दगवारेण पिहिअं, नीसाए पीढएण वा
लोढेण वावि लेवेण, सिलेसेणवि केणइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org