SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ वक्ष्यति स्वयमेवेति सूत्रार्थः ॥ मू. ( ११० ) असंसट्टेण हत्थेण, दव्वीए भायणेन वा । दिज्जमाणन इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ वृ. आह च-'असंसट्टेण' त्ति सूत्रम्, असंसृष्टेन हस्तेन - अन्नादिभिरलिप्तेन दर्व्या भाजनेन वा दीयमानं नेच्छेत्, किं सामान्येन ?, नेत्याह-पश्चात्कर्म भवति 'यत्र' दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति सूत्रार्थः ॥ मू. (१११ ) संसट्टेण य हत्थेण, दव्वीए भायणेन वा । दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥ वृ. 'संसद्वेण' त्ति सूत्रं, संसृष्टेन हस्तेन - अन्नादिलिप्तेन, तथा दर्व्या भाजनेन दा दीयमानं 'प्रतीच्छेद्' गृह्णीयात्, किं सामान्येन ? नेत्याह-यत्तत्रैषणीयं भवति, तदन्यदोषरहित - मित्यर्थः, इह च वृद्धसंप्रदायः - संसट्टे हत्थे संसट्टे मत्ते सावसेसे दव्वे, संसट्टे हत्थे संसट्टे मत्ते णिरवसेसे दव्वे, एवं अट्ठ भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेऽवि जत्थ सावसेसं दव्वं तत्थ धिप्प, न इयरेसु, पच्छाकम्मदोसाउ त्ति सूत्रार्थः ॥ किंच मू. (११२) दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिज्जमाणं न इच्छिज्जा, छंद से पडिलेहए । वृ. 'दुण्हं' ति सूत्रं, 'द्वयोर्भुञ्जतो:' पालनां कुर्वतो:, एकस्य वस्तुनः स्वामिनोरित्यर्थः, एकस्तत्र 'निमत्रयेत्' तद्दानं प्रत्यामत्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु 'छन्दम्' अभिप्रायं 'से' तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्रादिविकारैः किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेद्गृह्णीयात्र चेन्नैवेति, एवं भुञ्जानयोः - अभ्यवहारायोद्यतयोरपि योजनीयं यतो भुजि: पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थ : ॥ , , मू. (११३ ) दुण्हं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए । दिज्जमाणं पडिच्छिज्जा जं तत्थेसणियं भवे ॥ दशवैकालिक - मूलसूत्रं - ५/१/१०९ वृ. ततो 'दुण्हं' ति सूत्रं द्वयोस्तु पूर्ववत् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तत्रातिप्रसादेन निमत्रयेयातां तत्रायं विधिः दीयमानं 'प्रतीच्छेद' गृह्णीयात् यत्ततैषणीयं भवेत्, तदन्यदोषरहितमिति सूत्रार्थ : ॥ मू. ( ११४ ) - Jain Education International गुव्विणीए उवन्नत्थं, विविहं पानभोअणं । भुंजमाणं विविज्जिज्जा, भुत्तसेसं पडिच्छए । वृ. विशेषमाह - 'गुव्विणीए' त्ति सूत्रं, 'गुर्विण्या' गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह - 'विविधम्' अनेकप्रकारं 'पानभोजनं' द्राक्षापानखण्डस्वाद्यकादि, तत्र भुज्यमानं तया विवर्ज्यं मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, 'भुक्तशेषं ' भुक्तोद्धरितं प्रतीच्छेत्, यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थ : ॥ मू. (११५) सिआ य समणद्वाए, गुव्विणी कालमासिणी । उट्टिआ वा निसीइज्जा, निसन्ना वा पुणुट्ठए । वृ. किंच- 'सिआ य' त्ति सूत्रं, 'स्याच्च' कदाचिच्च 'श्रमणार्थं' साधुनिमित्तं 'गुर्विणी' For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy