SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-५, उद्देशक:- १. [नि.२४५] १५१ तहेव समणट्ठाए, उदगंसंपणुलिया॥ वृ. तथा 'साहट्ट'त्ति सूत्रं, संहृत्यान्यस्मिन् भाजने ददाति, 'तं फासुगमवि वज्जए, तत्थ फासुए फासुयं साहरइ फासुए अफासुअंसाहरइ अफासुए फासुयं साहरइ अफासुए अफासुअं साहरइ. तत्थ जं फासुअं फासुए साहरइ तत्थवि थेवे थेवं साहरइ थेवे बहुअंसाहरइ बहुए थेवं साहरइ बहुए बहुअं साहरइ । एवमादि यथा पिण्डनियुक्तिौ । तथा निक्षिप्य भाजनगतमदेयं षट्सु जीवनिकायेषु ददाति, 'सचित्तम्' अलातपुष्पादि 'घट्टयित्वा' संचाल्य च ददाति तथैव 'श्रमणार्थ' प्रव्रजितनिमित्तमुदकं 'संप्रणुध' भाजनस्थं प्रेर्य ददातीति सूत्रार्थः।। म.(१०६) ओगाहइत्ता चलइत्ता, आहरे पानभोअणं। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥ वृ. 'ओगाहइत्ता' सूत्रं, तथा च 'अवगाह्य' उदकमेवात्माभिमुखकाकृष्य ददाति तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टवित्वेत्युक्तेऽपि भेदेनोपादानाम्, अस्ति चायं न्यायो-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानं, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा 'आहरेत्' आनीय दद्यादित्यर्थः, किं तदित्याह-'पानभोजनम्' ओदनारनालादि तदित्थंभूतां ददती 'प्रत्याचक्षीत' निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ।। मू.(१०७) पुरेकम्मेण हत्थेण, दव्वीए भायणेन वा। दितिअंपडिआइक्खे, न मे कप्पइ तारिसं। वृ.'पुरेकम्मे'त्ति सूत्रं, पुर:कर्मणा हस्तेन-साधुनिमित्तं प्राकृतजलोज्झनव्यापारेण, तथा 'दा डोवसदृशया 'भाजनेन वा' कांस्यभाजनादिना ददतीं 'प्रत्याचक्षीत' प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्वदेवेति सूत्रार्थः॥ मू.(१०८) एवं उदउल्लेससिणिद्धे, ससरक्खे मट्टिआउसे। . हरिआले हिंगुलए, मनोसिला अंजने लोणे॥ वृ. एवं'ति सूत्रम्, ‘एवम्' उदकाइँण 'हस्तेन' करेण, उदकाो नाम गलदुदकबिन्दुयुक्तः, एवं सस्निग्धेन हस्तेन, सस्निग्धो नाम ईषदुदकयुक्तः, एवं 'सरजस्केन हस्तेन' सरजस्को नाम-पृथिवीरजोगुण्डितः, एवं मृद्गतेन हस्तेन' मृद्गतो नाम-कर्दमयुक्तः, एवमूषादिष्वपि योजनीयम्, एतावन्ति एव एतानि सूत्राणि, नवरमूषः-पांशुक्षारः, हरितालहिङ्गकमनः-शिलापार्थिवा वर्णकभेदाः, अञ्जनं-रसाञ्जानदिलवणं-सामुद्रादि।। मू.(१०९) गेरुअवन्निअसेढिअसोगडिअपिट्ठकुक्कुसकए य। उक्किट्ठमसंसद्धे, संसद्वेचेव बोद्धव्वे॥ वृ.तथा 'गेरुअ'त्ति सूत्रं, गैरिका-धातुः, वर्णिकापीतमृत्तिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रिमा-तुवरिका, पिष्टम्-आमतण्डुलक्षोदः, कुक्कुसाः प्रतीताः, 'कृतेनेति' एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालावुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उद्खलकण्डित इति, तथा असंसृष्टोव्यञ्जनादिना अलिप्तः संसृष्टश्चैव व्यञ्जनादिलिसो बोद्धव्यो हस्त इति, विधिं पुनरत्रोद्धं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy