SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० दशवैकालिक-मूलसूत्र-५/१/९९ भिक्षाचारा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनात्यदा तद्गमनासंभवमाह, किंतर्हि?, कुलस्य भूमिम्-उत्तमादिरूपामवस्थां ज्ञात्वा 'मितां भूमि' तैरनुज्ञातां पराक्रमेत्, योषामप्रीतिर्नोपजायत इति सूत्रार्थः।। मू.(१००) तत्थेव पडिलेहिज्जा, भूमिआगंविअक्खणो। सिणाणस्सय वच्चस्स, संलोगं परिवज्जए। वृ.विधिशेषमाह-'तत्थेव'त्ति सूत्रं, 'तत्रैव' तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना 'भूमिभागम्' उचितं भूमिदेशं 'विचक्षणो' विद्वान, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह, तत्र चतिष्ठन्नानस्यतथा 'वर्चसो' विष्ठायाः संलोकं परिवर्जयेत्, एतदुक्तं भवतिस्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति सूत्रार्थः॥ मू.(१०१) दगमट्टिअआयाणे, बीआणि हरिआणि। परिवज्जतो चिट्ठिज्जा, सव्विंदिअसमाहिए। वृ.किंच-'दग'त्तिसूत्रम्, 'उदकमृत्तिकादानम्' आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृतिकानयनमार्गमित्यर्थः, 'बीजानि' शाल्यादीनि 'हरितानिच' दूर्वादीनि, चशब्दादन्यानि चसचेतनानि परिवर्जयस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः' शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः॥ मू.(१०२) तत्थ से चिट्ठमाणस्स, आहरे पानभोअणं। . अकप्पिन गेण्हिज्जा, पडिगाहिज्ज कप्पिअं॥ वृ.'तत्थ'त्ति सूत्रं, 'तत्र' कुलोचित्तभूमौ से' तस्यसाधोस्तिष्ठतः सतः आहरेद्' नयेत्पानभोजनं, गृहीति गम्यते, तत्रायं विधि:-'अकल्पिकम्' अनेषणीयं नगृह्णीयात्, प्रतिगृह्णी-यात् ‘कल्पिकम्' एषणीयम्, एतच्चार्थापन्नमपिकल्पिकग्रहणं द्रव्यतः शोभनमशोभनमप्येतद-विशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति सूत्रार्थः॥ मू.(१०३) आहरंती सिआ तत्थ, परिसाडिज्ज भोअणं । दितिअंपडिआइक्खे, न मेकप्पइ तारिसं॥ वृ. आहरंति'त्ति सूत्रम्, आहरन्ती' आनयन्ती भिक्षामगारीति गम्येत 'स्यात्' कदाचित् 'तत्र' देशे 'परिशाटयेद्' इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह-ददती 'प्रत्याचक्षीत' प्रतिषधयेत्तामगारी, स्त्रयेय प्रायो भिक्षां ददातीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्यत आहन मम - कल्पते तादृशं-परिशाटनावत्, समयोक्तोदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुबिन्दूदाहरणादिनेति सूत्रार्थः॥ मू.(१०४) समंद्दमाणी पाणाणि, बीआणी हरिआणी । - असंजमकरिनच्चा, तारिसिं परिवज्जए। वृ. किंच-'संमद्द'त्ति सूत्रं, 'संमर्दयन्ती' पद्भ्यां समाक्रामन्ती, कानित्याह-'प्राणनिो' द्वीन्द्रियादीन् 'बीजानि' शालिबीजादीनि 'हरितानि' दूर्वादीनि असंयमकरी' साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददती प्रत्याचक्षीतइती सूत्रार्थः॥ मू.(१०५) साहट्टनिक्खिवित्ता नं, सचित्त घट्टियाणि य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy