________________
१४८
इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यानर्ह इति सूत्रार्थः ॥ दवदवस्स न गच्छेज्जा, भासमाणो अ गोअरे । हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया ।
मू. (८९)
वृ. किं च - 'दवदवस्स' त्ति सूत्रं, 'द्रुतं द्रुतं' त्वरितमित्यर्थः, न गच्छेत् भाषमाणो वा न गोचरे गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्चं - द्रव्यभावभेदाद्दिधा-द्रव्योच्चं धवलगृहवासि भावोच्चं जात्यादियुक्तम्, एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा उभयविराधनालोकोपधातादय इति सूत्रार्थः ॥
मू. ( ९० )
आलोअं थिग्गलं दारं, संधि दगभवणाणि अ ।
दशवैकालिक - मूलसूत्रं - ५ /१/८८
चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए ।
वृ.अत्रैव विधिमाह-‘आलोअं थिग्गलं' ति सूत्रम्, ‘अवलोकं' निर्यूहकादिरूपं 'थिग्गलं' चित्तं द्वारादि, संधि:-चित्तं क्षत्रम्, 'उदकभवनानि' पानीयगृहाणि चरन् भिक्षार्थं न 'विनिध्यायेत्' विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि अतो विवर्जयेत, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः ॥ मू. (९१)
रन्नो गिहवईणं च, रहस्सारक्खियाण य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ।
q. किंच- 'स्नो' ति सूत्रं, राज्ञः - चक्रवर्त्यादेः 'गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणामिति योगः, 'आरक्षकाणां च' दण्डनायकादीनां 'रहः स्थानं' गुह्यापवरकमत्रगृहादि 'संक्लेश-करम्' असदिच्छाप्रवृत्त्या मत्रभेदेवा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः ॥
मू. (९२)
पडिकुद्वकुलं न पविसे, मामगं परिवज्जए ।
अचिअत्तकुलं न पविसे, चिअत्तं पविसे कुलं ॥
वृ. किंच- 'पडिकुट्ठ' त्ति सूत्रं, प्रतिकृष्टकुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकम् - अभोज्यम्, एतन्न प्रविशेत् शासनलघुत्वप्रसङ्गात्, 'मामकं यत्राऽऽह गृहपतिः - मा मम किश्चद्गृहमागच्छेत्, एतत् वर्जयेत, भण्डनादिप्रसङ्गात्, 'अचि-अत्तकुलम्' अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चि-निमित्तान्तरात्, एतदपि न प्रविशत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, 'चिअत्तम्' अचिअत्तविपरीतं प्रविशोत्कुलं, तदनुग्रहप्रसङ्गादिति सूत्रार्थः ॥
मू. ( ९३ )
साणीपावारपिहिअं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ ॥
वृ. किंच - 'साणि' त्ति सूत्रं, 'शाणीप्रावारपिहित' मिति शाणी अतसीवल्कजा पटी, प्रावार:प्रतीतः कम्बल्याद्युपलक्षणमेतत्, एवमादिभिः पिहितं स्थगितं, गृहमिति वाक्य- शेषः । 'आत्मना ' नापवृणुयात्' नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गत भुजिक्रियादि - कारिणां प्रद्वेषप्रसङ्गात्, तथा‘कपाटं' द्वारस्थगनं ‘न प्रेरयेत्' नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषण?, नेत्याह -‘अवग्रहमयाचित्वा’ आगाढप्रयोजनेऽननुज्ञाप्वावग्रहं विधिना धर्मलाभमकृत्वेति सूत्रार्थः ॥ गोअरग्गपविठ्ठशे अ, वच्चनमुत्तं न धारए ।
मू. ( ९४ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org