________________
अध्ययनं-५, उद्देशकः - १. [नि.२४५] 'विस्रोतसिका' तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः॥ मू.(८५) अनायणे चरंतस्स, संसग्गीए अभिक्खणं ।
हुज्ज वयाणं पीला, सामनमि अ संसओ। वृ.एष सकृच्चरणदोषो वेश्यासामन्तसंगत उक्तः साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह'अनायणे'त्ति सूत्रम्, अनायतने-अस्थाने वेश्यासामान्तादौ 'चरतो' गच्छतः 'संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः, किमित्याह-भवेत 'व्रतानां' प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, श्रामण्ये च' श्रमणभावेच द्रव्यतो रजोहरणादिधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुनिष्क्रामत्येवेत्यर्थः, तथा चवृद्धव्याख्या-वेसादिगयभावस्स मेहुणं पीडिज्जइ, अनुवओगेणं एसणाकरणे हिंसा, पडुप्पायणे अन्नपुच्छण-अवलणाऽसच्चवयणं, अणणुण्णायवेसाइदसंणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववय-पीडा, दव्वसामन्ने पुण संसयो उन्निक्खमणेण त्ति सूत्रार्थः ।। मू.(८६) तम्हा एअंविआणित्ता, दोसंदुग्गइवड्डणं।
वज्जए वेससामंतं, मुनी एगंतमस्सिए। वृ. निगमयत्राह-'तम्हा' इति सूत्रम्, यस्मादेवं तस्मादेतत् विज्ञाय दोषम्' अनन्तरोदितं दुर्गतिविर्धनं वर्जयद्वेश्यासामन्तं मुनि एकान्तं' मोक्षमाश्रित इति सूत्रार्थः॥ .
आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यम्, तच्च लेशतो दर्शितमेवेति। अत्रैव विशेषमू.(८७) साणं सूइअंगाविं, दित्तं गोणं हयं गयं।
व संडिम्भं कलहं जुद्धं, दूरओ परिवज्जए॥ वृ. 'साणं'ति सूत्रं, 'श्वानं' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'दृप्तं' च दर्पितं, किमित्याह-गावं हयं गजं, गौ:-बलीवर्दो हयः-अश्वो गजो-हस्ती। तथा 'संडिम्भं' बालक्रीडास्थानं 'कलहं' वाक्प्रतिबद्धं 'युद्ध' खङ्गादिभिः, एतत् 'दूरतो' दूरेण परि-वर्जयेत्, आत्मसंयमविराधनासंभवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः॥ मू.(८८) अणुन्नए नावणए, अप्पहिडेअनाउले।
इंदिआणि जहाभाग, दमइत्ता मुनी चरे। वृ. अत्रैव विधिमाह-'अणुन्नए'त्ति सूत्रम्, 'अनुन्नतो' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, 'नावनतो' द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः भावानवनतः अलब्ध्यादिनाऽदीनः 'अप्रहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि' स्पर्शनादीनि यथाभागं' यथाविषयं 'दमयित्वा' इष्टानिष्टेषुस्पर्शादिषु रागद्वेषरहितो 'मुनिः' साधुः ‘चरेद्' गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योत्रतो लोकहास्यः भावोन्नत ईर्यां न रक्षति द्रव्यावनत: बक इति संभाव्यते भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिदर्शनाद्रक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org