________________
१४२
दशवैकालिक - मूलसूत्रं - ४ /-/ ७२ वृ. साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह - 'सुहे 'ति, सुखास्वादकस्यअभिष्वङ्गेण प्राप्तसुखभोक्तुः 'श्रमणस्य' द्रव्यप्रव्रजितस्य 'साताकुलस्य' भाविसुखार्थं व्याक्षितस्य 'निकामशायिनः' सूत्रार्थवेलाभप्युल्लडध्य शयानस्य 'उत्सोलनाप्रधाविनः ' उत्सोलनयाउदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथा तस्य, किमित्याह -- 'दुर्लभा' दुष्प्रापा 'सुगतिः' सिद्धिपर्यवसाना 'तादृशस्य' भगवतदाज्ञालोपकारिण इति गाथार्थः ॥ मू. (७३) तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स । परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥
वृ. इदानीमिदं धर्मफलं यस्य सुलभं तमाह-'तवोगुणे'त्यादि, 'तपोगुणप्रधानस्य' षष्ठाष्ठमादितपोधनवतः‘ऋजुमतेः' मार्गप्रवृत्तबुद्धेः 'क्षान्तिसंयमरतस्य' क्षान्तिप्रधानसंयमा - सेविनइत्यर्थः 'परीषहान्' क्षुत्पिपासादीन् 'जयत: ' अभिभवतः सुलभा 'सुगति: ' उक्तलक्षणा 'तादृशस्य' भगवदाज्ञाकारिण इति गाथार्थः ॥
मू. (७४)
पच्छावि ते पयाया, खिप्पं गच्छति अमरभवणाई । जेसिं पिओ तवो संजमो अ खंती अ बंभचेरं च । इच्चेअं छज्जीवणिअं सम्मद्दिट्ठी सया जाए। दुल्लहं लहित्तु सामण्णं, कम्मुणा न विराज्जासि ॥ त्तिबेमि ॥
मू. (७५)
वृ. महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह- 'इच्चेय' मित्यादि, 'इत्येतां षड्जीवनिकायिकाम्' अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदितियोगः, 'सम्यग्दृष्टिः ' जीवस्तत्त्वश्रद्धावान् सदा यतः ' सर्वकालं प्रयत्नपरः सन् किमित्याह - 'दुर्लभं लब्ध्या श्रामण्यं' दुष्प्रापं प्राप्य श्रमणभावं - षड्जीवनिकायसंरक्षणैकरूपं 'कर्मणा' मनोवाक्कायक्रियया प्रमादेन 'न विराधयेत्' न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथञ्चिद् भवति तथाऽप्यसावविराधननैवेत्यर्थः ।
[प्र]
एतेन 'जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवामालाकुले लोके, कथं भिक्षुरहिंसकः ॥'
इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्च । ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाह निर्मुक्तिकारः
नि. [२३४]
जीवाजीवाभिगमो आयारो चेव धम्मपन्नत्ती ।
तत्तो चरित्तधम्मो चरणे धम्मे अ एगट्ठा ॥
वृं. 'जीवाजीवाभिगम:' सम्यग्जीवाभिगमहेतुत्वात् एवम् 'आचारश्चैव' आचारोपदेशत्वात 'धर्मप्रज्ञप्तिः' यथावस्थितधर्मप्रज्ञापनात् ततः 'चारित्रधर्म:' तन्निमित्तत्वात् 'चरणं' चरणविषयत्वात् 'धर्मश्च' श्रुतधर्मस्तत्सारभूतत्वात्, एकार्थिका एते शब्दा इति गाथार्थः ॥ अन्ये त्विदं गाथासूत्रमनन्तरोदितसूत्रस्याधो व्याख्यानयन्ति तत्राप्यविरुद्धमेव । उक्तोऽनुगमः, साम्प्रतं नयास्ते च पूर्ववदेव ।
अध्ययन नं-४ समाप्तम्
मुनि दीपरत्नसागरेण संशोधितं सम्पादितं दशवैकालिक सूत्रे चतुर्थ अध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org