SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ४, उद्देशक : - [ नि. २३३ ] 'प्रव्रजति' प्रकर्षेण व्रजत्यपवर्गं प्रत्यनगारं, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः ॥ जया मुंडे भवित्ता नं, पव्वइए अनगारिअं । मू. (६५) तया संवरमुक्किट्ठ, धम्मं फासे अनुत्तरं ।। वृ. 'जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा 'संवरमुक्किट्टं' ति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः ॥ मू. (६६) जया संवरमुक्तिट्ठ, धम्मं फासे अनुत्तरं । तया धुणइ कम्मरयं, अबोहिकलुसकडं ॥ वृ. 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्मं स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति ‘कर्मरजः' कर्मैव आत्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-'अबोधिकलुषकृतम्' अबोधिकलुषेणमिथ्यादृष्टिनोपात्तमित्यर्थः ॥ मू. (६७) जया धुणइ कम्मरयं, अबोहिकलुसंकडं । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ । वृ. 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा 'सर्वत्रगं ज्ञानम्' अशेषज्ञेयविषयं 'दर्शनं च' अशेषदृश्यविषयम् 'अधिगच्छति' आवरणाभावादाधिक्येन प्राप्नोतित्यर्थः ॥ मू. (६८) जया सव्वत्तग नाणं, दंसणं चाभिगच्छइ । तया लोगमलोगं च, जिनो जाणइ केवली ॥ १४१ वृ. 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा 'लोकं' चतुर्दशरज्ज्वात्मकम् 'अलोकं च' अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्वं नान्यतरमेवेत्यर्थः । मू. (६९) जया लोगमलोगं च, जिनो जाणइ केवली । तया जोगे निरुंभिता, सेलेसिं पडिवज्जइ ॥ वृ.‘जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योंगान्निरुद्धय मनोयोगादीन् शैलेश प्रतिपद्यते, भवोपग्राहकर्मांशक्षयाय ॥ मू. ( ७० ) जया जोगे निरुंभित्ता, सेलेसि पडिवज्जइ । तया कम्मं खवित्ता नंं, सिद्धिं गच्छइ नीरओ ॥ Jain Education International वृ. 'जया' इत्यादि, यदा योगान्निरुदध्य शैलेश प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि 'सिद्धि गच्छति' लोकान्तक्षेत्ररूपां 'नीरजा' सकलकर्मरजोविनिर्मुक्तः ॥ मू. (७१) जया कम्मं खवित्ता नं, सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो, सिद्धो हवइ सासओ । वृ. 'जया' इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजा: तदा 'लोकमस्तकस्थ : ' त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वतः' कर्मबीजाभावादनुत्पत्तिधर्मेति भावः । उक्तो धर्मफलास्यः षष्ठोऽधिकारः ॥ I मू. ( ७२ ) सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स। उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स । For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy