________________
-
१४०
दशवैकालिक-मूलसूत्र-४/-/५७ पापकम्-असंयमस्वरूपम्, 'उभयमपि' संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकं-निपुणं हितं कालोचित्तं तत्समाचरेत्कुर्यादित्यर्थः।। ..मू.(५८) जो जीवेविन याणेइ, अजीवेविन याणेइ।
जीवाजीवे अयाणंतो, कह सो नाहीइ संजमं? वृ.उक्तमेवार्थं स्पष्टयन्नाह-'जो जीवेऽपि' इत्यादि, यो 'जीवानपि' पृथिवीकायिकादिभेदभिन्नान् न जानाति अजीवानपि' संयमोपघातिनो मद्यहिरण्यादीन जानाति, जीवाजीवानजानकथमसौ ज्ञास्यति 'संयमं?' तद्विषयं, तद्विषयाज्ञानादिति भावः॥ मू.(५९) जो जीवेवि वियाणेइ, अजीवेवि वियाणेइ।
जीवाजीवेवियाणतो, सोहुनाहीइ संजमं॥ वृ. ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति। प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ।। मू.(६०) जया जीवमजीवे अ, दोऽवि एए वियाणइ।
तया गइंबहुविहं, सव्वजीवाण जाणइ॥ वृ. साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह-'जया' इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति 'तदा' तस्मिन् काले 'गर्ति' नरकगत्यादिरूपां 'बहुविधां' स्वपरमतभेदेनानेकप्रकारां सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात्। मू.(६१) जया गइंबहुविहं, सव्वजीवाण जाणइ।
तया पुण्णं च पावंच, बंधमुक्खं च जाणइ। वृ.उत्तरोत्तरां फलवृद्धिमाह-'जया' इत्यादि, यदा गति बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापंच-बहुविधगतिनिबन्धनं(च) तथा 'बन्धं' जीवकर्मयोगदुःखलक्षणं 'मोक्षंच' तद्वियोगसुखलक्षणं जानाति॥ मू.(६२) जया पुण्णं च पावं च, बंधं मुक्खं च जाणइ।
तया निविंदए भोए, जेदिव्वे जे अमानुसे। वृ.'जया' इत्यादि, यदा पुण्यं च पापंच बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहा-भावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान्' शब्दादीन्यादिव्यान्यांश्चमानुषान्, शेषास्तुवस्तुतो भोगा एव न भवन्ति॥ मू.(६३) जया निविंदए भोगे, जे दिवे जे अमानुसे।
तया चयइ संजोगं, सब्भितरबाहिरं। वृ.'जया' इत्यादि, यदा निविन्ते भोगान् यान् दिव्यान्, यांश्च मानुषान् तदा त्यजति संयोग' संबन्धंद्रव्यतो भावत: 'साभ्यन्तरबाा' क्रोधादिहिरण्यादिसंबन्धमित्यर्थः॥ मू.(६४) जया चयइ संजोगं, सब्भितरबाहिरं।
तया मुंडे भवित्तानं, पव्वइए अनगारि। वृ. 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org