________________
अध्ययनं-४,उद्देशकः - [नि.२३३]
१२९ 'त्रिविधं त्रिविधेने'ति तिस्त्रो विधा-विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन-करणेन, एतदुपन्यस्यति-मनसा वाचा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्ड: तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह-'न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामी'ति,
'तस्य भदन्त!प्रतिक्रमामी'ति तस्येत्यधिकृतोदण्ड: संबध्यते, संबन्धलक्षणा अवयवलक्षणा या षष्ठी योऽसौ त्रिकालविषयोदण्डस्तस्यसंबन्धिनमतीतमवयवंप्रतिक्रामामि, नवर्तमानगमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणादनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोशमन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थं, प्रतिक्रामामीति भूताद्दण्डान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा 'निन्दामि गर्हामी'ति, अत्रात्मसाक्षिकी निन्दा परसाक्षिकी गर्हाजुगुप्सोच्यते, आत्मानम्' अतीतदण्डकारिणमश्लाध्यं व्युत्सृजामि'ति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामिति-त्यजामि, ततश्च विविधं विशेषेणा वा भृशं त्यजामि व्य॒त्सुजामीति।
आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रस्यैदम्पर्यं न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं, नकरोमीत्यादिना तभयसिद्धेरिति॥
मू.( ३४ )पढमे भंते! महव्वए पाणाइवायाओवेरमणं, सव्वं भंते! पाणाइवायं पच्चक्खामि, से सुहमंवा बायरंवा तसंवा थावरंवा, नेवसयंपाणे अइवाइज्जा नेवऽन्नेहिं पाणे अइवायाविज्जा पाणे अइवायंतेऽविअन्नेन समणुजाणामि, जावज्जीवाएतिविहंतिविहेणंमणेणंवायाएकाएणंनकरेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पढमे भंते! महव्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं॥
वृ-अयं चात्मप्रतिपत्त्यर्हो दण्डनिक्षेप: सामान्यविशेषरूप इति, सामान्येतोक्तलक्षण एव, सतु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह-'पढमे भंते' इत्यादि, सूत्रक्रमप्रामाण्यात्प्राणातिपातविरमाणं प्रथमंतस्मिन्, भदन्तेतिगुरोरामत्रणं, 'महाव्रत' इति महच्च तद्वतं च महाव्रतं, महत्त्वं चास्य श्रावकसंबन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथा 'सीयालं भंगसयंपच्चक्खाणंमिजस्स उवलद्धं। सो पच्चखाणकुसलो सेसा सव्वे अकुसला उ॥१॥" ___ एनांचासंमोहार्थमुपरिष्टाद्वयाख्यास्यामः । तस्मिन्महाव्रते 'प्राणातिपाताद्विरमण'मिति प्राणाइन्द्रियादयः तेषामतिपातः प्राणातिपातः-जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्मात्-प्राणातिपाताद्विरमणं, विरमणं नामसम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामी'तिसर्वमिति-निरवशेषं, नतुपरिस्थूरमेव, भदन्तेति गुमित्रणं, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आाभिमुख्ये ख्या प्रकथने, प्रतीपमभिमुखंख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्षे-संवृतात्मा साम्प्रतमनागतप्रतिषेधस्य आद27/9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org