SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० दशवैकालिक - मूलसूत्र - ४ /-/ ३४ रेणाभिधानां करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानार्ह इत्येतदाह, उक्तं च"पढिए य कहिय अहिगय परिहरउवठावणाई जोगोत्ति । छक्कं तीहिं विसुद्धं परिहर नवएण भेदेण ॥१॥ पडपासाउरमादी दिट्ठता होंति वयसमारुहणे । जहमलिणाइसु दोसा सुद्धाइसु नेवमिहइंपि॥२॥ इत्यादि, • एतेसिं लेसुद्देसण सीसहियट्टयाए अत्थो भण्णइ - पढियाए सत्थपरिण्णाए दसकालिए छज्जीवनिकाए वा, कहियाए अत्थओ, अभिगयाए संमं परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयणकाएहिं कयकारावियानुमइभेदेण, तओ ठाविज्जइ, न अन्नहा । इमे य इत्थ पडादी दिट्टंतामइलो पडो न रंगिज्जइ सोहिओ रंगिज्जइ, असोहिए मूलपाए पासाओ न किज्जइ सोहिए किज्जइ, मणाईहिं असोहिए आउरे ओसहंन दिज्जइ सोहिए दिज्जइ, असंठविए रयणे पडिबंधोन किज्जइ संठविए किज्जइ, एवं पढियकहियाईहि असेहिए सीसे न वयारोवणं किज्जई सोहिए किज्जइ, असोहि य करणे गुरुणो दोसा, सोहियापालणे सिस्सस्स दोसो त्ति कयं पसंगेण । यदुक्तम्- 'सर्वं भदन्त ! प्राणातिपातं प्रत्यास्वामी 'ति तदेतद्विशेषण अभिधित्सुराह - 'से सुहुमं . वे 'त्यादि सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मंवा बादरं वा त्रसं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह-'बादरोऽपि ' स्थूरः, स चैकैको द्विधा - त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, एतान्, 'नेव सयं पाणे अइवाएज्ज' त्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङा तिङो भवन्ती 'ति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि, नैवान्यैः प्राणिनोऽतिपातायामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् । इह च 'सूक्ष्मं वा बादरंवे' त्यादिनोपलक्षित 'एकग्रहणे तज्जातीग्रहण'मिति चतुर्विधः प्राणातिपातो द्रष्टव्यः, तद्यथा-द्रव्यत: क्षेत्रत: कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा भवतो रागेण वा द्वेषेण वा, मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र - दव्वओ नामेगे पाणाइवाए न भावओ इत्यादिरूप यथा द्रुमपुष्पिकायां तथा द्रष्टव्येति । व्रतप्रतिपत्ति निगमयन्नाह - प्रथमे भदन्त ! महाव्रते 'उपस्थितोऽस्मि' उप-सामीप्येन तत्परिणामापत्त्या स्थितः इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति । 'भदन्त' इत्यनेन चादिमध्यावसनेषु गुरुमनापृच्छय न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदारधितं भवतीत्येवमाह ॥ उक्तं प्रथमं महाव्रतम् ॥ मू. (३५) अहावरेदुच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुखं वइज्जा नेवऽन्नेहिं मुसं वायाविज्जा मुसं वयं तेऽवि अनेन समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते! महव्वए उर्वाट्ठिओमि सव्वाओ मुसावायाओ वेरमणं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy